Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 193
________________ युक्त्यनुशासनं । किमु न्यायान्यायप्रकृतगुणदोषज्ञमनसां हितान्वेषोपायस्तव गुणकथासंगगदितः ॥६४। टीका--न रागानोऽस्माकं. परीक्षाप्रधानानां भवति व. र्द्धमाने 'स्तोत्रं प्रवृत्तं कीर्त्या महत्या भुवि वर्धमानमित्यादिकं भवतो मुनेर्भवपाशच्छेदित्वात्तदर्थितया स्तोत्रस्योपपत्तेः, न चान्येष्वनेकान्तवादिषु द्वेषादेवापगुणकथाभ्यासेन खलता नस्तत एव किमुत न्यायान्यायज्ञमनसां प्रकृतगुणदोषज्ञमनसांच च हिताहितान्वेषणोपायस्तव गुणकथासंगेन गदित इति नाप्रेक्षापूर्वकारिता सूरेः, श्रद्धागुणज्ञतयोरेव परमात्मस्तोत्रे युक्तयनुशासने प्रयोजकत्वात् । साम्प्रतं स्तोत्रफलं मूरयः प्रार्थयन्ति । इति स्तुत्यः स्तुसैस्त्रिदशमुनिमुख्यैः प्राणिहितैः स्तुतः शक्तया श्रेय पदमधिगतस्त्वं जिन मया। महावीरो वीरो दुरितपरसेनाभिविजये विधेया मे भक्तिः पथि भवत एवाप्रतिनिधौ।६५ ___टोका-भवतो जिनस्य पथि मार्गे सम्यग्दर्शनज्ञानचारित्रलक्षणेप्रतिनिधौ-प्रनिनिधिरहितेऽन्ययोगव्यवच्छेदेन निणीते भक्तिमाराधनां विधेयास्त्वं जिन ? मे भगवनिति स्तोत्रफलप्रार्थना परमनिर्वाणफलस्य तन्मू नत्वात् । कुतः स्वपथि भक्ति विधेयास्त्वमिति चेत , यतो दुरितपरसेनाभिविजये वी. रस्त्वं यतश्च महावीरः श्रेयापदमधिगतत्वात् यतश्च स्तुतः शक्तथा मयेति । कस्मात्वं स्तुत इति चेत् , स्तुत्यो यस्मात् Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198