Book Title: Yuktyanushasanam
Author(s): Vidyanandacharya, Indralal Pandit, Shreelal Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
युफ्त्यनुशासन। प्रमीयते च व्यपदिश्यते च
वस्तुव्यवस्थांगममेयमन्यत् ॥६०॥ टीका---न हि वहिरन्तश्च वस्तुनोऽसंभवे तदभावः सर्वशून्यतालक्षणः संभवति तस्य वस्तुधर्मवात, स्वधर्मिणोऽसंभवे कस्यचिद्धर्मस्याप्रतीतेः। स ह्यभावः स्वरूपेण भवति न वा ? भवति चेदभावेऽपि वस्तुधर्मसिद्धेः कस्यचिद्धर्मस्याभावे धर्मान्तरमेव स च कथं वस्तुधर्मो न सिद्धयेत् । न भवति चेदभाव एव न स्यादभावस्याभावे भावस्य विधानात् । अथ धर्मिणोऽभावस्तदा भावान्तरं स्याद्भाववत् कुंभस्याभावो हि भूभागो भावान्तरमेवाहतो भगवतस्ते, न पुनस्तुच्छ: सकलशक्तिविरहलक्षणो योगस्येवेति प्रत्येतव्यं । कुत एतत् ? यस्मात्समीयते चाभावो व्यपदिश्यते च वस्तुव्यवस्थांगं च निगद्यते । अभावो हि धर्मस्य धर्मिणो वा यदि कुतश्चित्प्रमाणान्न प्रमीयते तदा कथं व्यवतिष्ठते ? प्रमीयते चेत्, नदा स च वस्तुधर्मो भावान्तरं बा धर्मधर्मस्वभावभाववत् । तथा यद्यभावो न व्यपदिश्यते तदा कथं प्रतिपद्यते ? पदिश्यते चेत्, वस्तुधर्मों वस्त्वंतरं वा स्यादन्यथा व्यपदेशानुपपत्तेः, तथा वस्तुनो घटादेर्व्यवस्थायामगमभावोऽनंग वा । यद्यनंग, किं तत्परिकल्पनया। घटे पटादेरभाव इति पादिपरिहारेण (तु) घट यवस्थाकारणमभावः परिकल्प्यतेऽन्यथा वस्तुसंकरप्रसंगादिति वस्तुव्यवस्थांगमभावोऽभ्युपगन्तव्यः । ततो वस्तु धर्म एवाभावो वस्तुव्यवस्थांगत्वाद्भाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org