Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod

View full book text
Previous | Next

Page 9
________________ ( 1 ) रानेतुं तव का शक्ति: १ ततो वामपाद-पादुकामादाय भोजेन भालदेशे हतो वत्सराज: प्राह, कुमार! बयं नृपादेश-कारिण: । इत्यत्वा वधार्थे बलाहमराजेन निशि विपिने भोजे नौते वत्सराजस्यानुजो भोजस्य वधोद्यम-समये-- "एक एव सुहृधम निधनेऽप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यच्च गच्छति ॥” इत्युक्तवान्। तनिशम्य वत्सराजो निर्वेदमापनः। भोज ! क्षमस्वेत्युत्वा प्रणम्य तं रथे निवेश्य गृहमागत्य भूमिगेहान्तरे संरक्ष्य च कृत्रिमं भोजमस्तकं निम्माय मुञ्जराजमागत्य नत्वा प्राह-श्रीमता यदादिष्टम् तन्मयाऽनुष्ठितम् । तदधं ज्ञात्वा राजा वत्सराजं प्राह वस्मराज ! पुत्रेणासि-प्रहारसमये किमप्युक्तम् ? तदा वत्सराज: माह, देव ! किमपि पत्र प्रेषितमस्ति । तदिदं ग्रहाण, छिन्नं शिरश्च दर्शयति । भोजमस्तकं दृष्ट्वा मुञ्जराजः रुरोद, तत: "मान्धाता च महीपतिः कृतयुगालङ्कारभूतो गतः, सेतुर्यन महोदधौ विरचितः कासौ दशास्यान्तकः । अन्ये चापि युधिष्ठिर-प्रभृतयो याता दिवम्भूपते ! ; नैकेनापि समङ्गता बसुमतौ मुञ्ज ! त्वया यास्यति ॥” इति भोज-विरचितं पत्चस्थं श्लोकं पठित्वा भूमौ पपात च। ततो राजा पण्डितमानौय, मया राजतनयो निहतः, प्रायश्चित्तमुच्यतामित्युवाच। तत: सर्वे विहांस: प्रोचुः, नरेश ! मवासाऽनलमाविश । ततो नृपस्य वङ्गि-प्रवेशे सुनिश्चिते तदृत्तं श्रुत्वा नृपाल. हारमागत्य वत्सराजो बुद्धिसागरमब्रवीत्। तात! मया भोजो न मारितः। बुद्धिसागरश्च तस्य कर्ण किमपि कथयति, ततो वक्षराजो निष्कान्तः। तन्महःण साक्षात्परमेश्वर वैकः कापालिकः समागतः। तं वीक्ष्य बुद्धिसागरः प्रोवाच, तपखिन् कुत आगम्यते ?

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 266