Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod

View full book text
Previous | Next

Page 10
________________ ( ॥० ) त्वयि कापालिके भुवन-चमत्कारीकलाविशेषः औषधि विशेषो वास्ति। ततो राजाप्याह-मया सहसा हतं सुतं रक्ष। सोऽब्रवोत् नृपेन्द्र ! माभैसीः तनयस्ते नाथ-प्रसादेन नैवमरिष्यति। प्रातस्तव गेहं स्वयमेव समेष्यति, परं श्मशानभूमौ बुद्धिसागर सचिवेन सह होमद्रव्यसम्भारं प्रेषय। कापालिकेन यदुक्तं तत् सर्व भूपालेन सम्पाद्य बुद्धिसागरामात्यः प्रेषितः । ततश्च यामिन्यां निगूढ़तया वत्सराजगेहाद-भोजस्तत्र सरित् पुलिनं नीतः। तपखिना भोज कुमारः पुनर्जीवित इति जनश्रुतिः सर्वतोऽप्यजायत। ततः पौरामात्यः परिवृतो भोजोराजसदनमागतः । ततस्तमालिङ्ग्य रुदन्तं मुझं निवार्य भोजः स्तौति । ततो राजा लज्जावनतशिरा सन् स्वीय-सिंहासने भोजमुपवेश्य राज्यभारं समयं वनं गतः। ततो मुळे वनं प्रस्थिते बुद्धिसागरं श्रेष्ठामात्यं विधाय भोज: स्वयं राज्यसुखं वुभुजे। ततो राजपरिषदि सहस्रशः सूरिवरा चतुर्दिग्भाः समाजग्मुः। ततो राजा सचिवं प्रत्याह, “लक्षं महाकवेयं तदई विवुधस्यच .....” इति। ततः क्रमेण वररुचि-सुवन्धु-वाणामरवामदेव-हरिवंश-शङ्कर--कलिङ्ग-कपूर-विनायक-मदन-विद्याविनोदकोकिल-तारेन्द्र प्रमुखाः सर्वशास्त्रविशारदा: सर्वज्ञा इव वुधवरा राजसभामहर्निशमलवन्ति । कियत्कालानन्तरं कविराज-कालिदासे समागते तेन साई भूपेन्द्रस्य परमाप्रोतिरजायत। अन्यत् भोजप्रवन्धे विस्तृतमस्ति। केचित् सूरयः अस्यैरेन्द्रजालिकविद्या, अपरेतु भोजविद्यां वानुमिमते। अपरंतु शैवतन्त्रोता कामसूत्रव्याख्याट-यशोधरणोल्लिखिता: चतुःषष्ठिकलाविद्या:सन्ति ताखेवान्तर्नीता ऐन्द्रजालिकविद्या इति वदन्ति ।। अन्येतु-यदा यवनमहावीर मामुदगजनी कालञ्जरं समवरुरोध, तदैव भोजनृपतिर्यवनसैन्यं सर्वथा जघान । चालुक्य भूपाला अस्य

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 266