Book Title: Yuktikalptaru
Author(s): King Bhoja
Publisher: Shardacharan Kavyavinod

View full book text
Previous | Next

Page 8
________________ ( 170 ) भोजपुरी, * श्रीमद्भागवते च + “भोजेन्द्र गेहेग्निशिखेवरुवा ......” इत्यादि कंसराजस्य राजधानी - नाम भोज इति संज्ञासोत् । नचाऽयं महाभारतादि-प्रसिद्धो भोजः एतस्य विरचयिता । भोजप्रबन्धः ( बल्लालविरचितः) तस्मादेवमवगम्यते, आसोद्दारानाम नगर्यां सिन्धुलाभिधो राजा, तस्य महिषी सावित्री, तयोर्वाक्ये भोजनाम पुत्रो जातः । स यदा पञ्चवर्षवयस्कः तदा स्वीय निधनकालं विदित्वा अनुज-मुञ्जाय राज्य भारं समर्थ तदुक्सङ्गे भोजच्च मुमोच । ततो राज्ञि दिवङ्गते कियत्कालानन्तरं नृपपरिषदि कश्चित् कुक्षिभरि दैवज्ञ आगत्य मुञ्जमहीपं प्राह । - नरेश ! भोजस्य भाग्योदयं वक्तुं विधातापि न समर्थ: । कोऽहं वराकः कुक्षिम्भरिर्ब्राह्मणः ? तथापि वच्मि शशधरोपमं भोजमितोऽन्यत्र प्रेषय । ततो नृपाया भोजेऽध्ययनालयं प्राप्ते प्राह ज्योतिज्ञः । यथा, - “पञ्चाशत् पञ्चवर्षाणि सप्तमासा दिनत्रयम् । भोजराजेन भोक्तव्यं सगौड़ दक्षिणापथम् ॥” मुञ्जमहीपालोऽचिन्तयत् । इति श्रुत्वा यदिराजश्रीर्भोजं गमिष्यति ततोऽहं जीवन्नपि मृतोपमः । ततो मुञ्जराजः सन्मन्वा बङ्गालाधोश्वरं $ महावोरं वत्सराजमाहूय निर्ज्जने तं प्रोवाच । वत्सराज ! त्वमेनं भोजकुमारं त्रिभुवनेश्वरो - विपिने जहि । वत्सराजः भोजोपाध्यायमाहयावदत् 'भोजमानय' इति । ततो विदितवृत्तान्तभोजः कुपितः प्राह । आः हन्त ! पाप राज्ञः कुमारं वहि तेन वहुप्रमाणानि संग्टह्य सिद्धान्तितं यत् सिन्धु लतनयो मालवाधीश भोजराजः एकादश शकाब्दे (खौ: ११२६) आसीदस्य कल्पतरोः प्रणेता स एवेत्यनुमीयते । (इण्डो आरियान्स्) । * कौशाम्बीवा कुशाम्बस्य वत्सराजस्य राजधानी सम्प्रति भारा सेति । + श्रीमद्भागवते १० स्कन्धे, टयः चः । ११ श्लोकः । + वज्रदेशौयं कमपि राजानमित्यर्थः ।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 266