Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपक्रमः युक्तिप्रबोये दुष्काले वस्त्रस्य कोपीनमात्रस्यापि परित्यागः सतः स्यात् किं वाऽसतः स्वीकारः ?, अन्यच्च न हि श्वेतांवरीयागमेषु सौराष्ट्रदेश॥ २॥ Xभाषायाः छायाऽपि येन तच्छास्त्राणां तत्रोद्भवो निगद्यमानश्चारुतामंचेत् न च वैक्रमीयेषु तेष्वब्देषु सौराष्ट्रेऽभूद् दुष्कालसाध्वसमिति प्रसिद्ध, श्वेतांबराः यच्च कथयन्ति यदुत रथवीरे रत्नकंबलच्छेदद्वेषजन्यो दिगंबरमतस्योद्भव इति, लक्ष्यते च लक्ष्यैकमतिभिर्यथार्थतया तत्, यतो दिगंबराणां श्वेतांबरैः सह मुख्यतयोपकरणविषय एव विवादा, स्त्रीणां चारित्राभावः केवलित्वाभावः केवलिनांच कवलाहा. राभाव इत्येते सर्वे तन्मूलका एव, यदा उपकरणमात्रस्याधिकरणत्वेनाभ्युपगमस्तदाऽनिरावरणतया स्त्रियां चारित्रसत्ताया हैअनङ्गीकारः, तदनंगीकारे च कैवल्याभावः स्पष्ट एवाभ्युपगतस्तैः, केवलिनामपि कवलाहाराभावः पात्रादेरुपकरणस्याभावादेव, Pएवं च बाह्यत्यागमूलकत्वमभ्युपगम्य धर्मस्योत्थापिता अन्यलिंगिगृहिलिंगिनां तैः सिद्धिरपि, एवं चापतितो माधुकरीवृत्तेर्लोपः, | तल्लोपोअपि अभ्युपेतो धर्मतया,एवं चानेकशी विसंवादे आपतिते सूत्रवचनानां समुघुष्ट तैः व्युच्छिन्नानि सूत्राण्याहतानाति,काल&ाक्रमेण च न मतं शास्त्रवर्जितमिति मत्वा श्वेतांबरीय एव तत्वार्थः शास्त्रतया स्वीचक्र इत्येतद्वस्तु मतद्वयमवगत्य छेकैः सुखेन निणीयते, तथा पूजाविधावपि जिनशानां जातस्तदनुकूल एव पृथग्भावः, कथमन्यथा सचक्षुष्काणां प्रतिबिंब निश्चक्षुष्कं जन्माभिषेकादीनामगीकारेऽपि वस्त्राभरणादीनामनंगीकारः, अत एव श्रीमद्भिः शान्तिसूरियादिदेवसूर्यादिभिरुत्तराध्ययनवृत्तिस्याद्वादरत्नाकरादिषु टीकाग्रन्थेषु श्रीमद्भिर्जिनभद्रक्षमाश्रमणविशेपावश्यकादिषु दिगंबरवादे उपकरणवाद एव प्राचुर्येण चर्चितः ॥ सति चैवं स्यादेवारेका यदुत निराकृताश्चेद् दिगम्बराः पूर्वसूरिभिस्तर्हि प्रकृतप्रकरणकारः किमिति तेषां निराकरणाय प्रस्तुतोऽयमारम्भ एतत्प्रकरण P ॥२॥ कर For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 234