Book Title: Yogshastra Part 05 Author(s): Hemchandracharya, Vijaydharmsuri Publisher: Asiatic Society of Bengal View full book textPage 6
________________ योगशास्त्रे सर्वो नाम महासत्त्वः कुले य उपजायते । तस्याऽभिवृद्धये वृद्धैरसावर उदाहृतः ॥ १ ॥ इति वचनादरः। तथा गर्भस्थे जनन्या स्वप्ने सर्वरत्नमयोऽरो दृष्ट इत्यरः । १८ । परीषहादिमल्लजयाविरुक्तामल्लिः, तथा गर्भस्थे मातुः एकऋतौ सर्वसुरभिकुसुममाल्यशयनीयदोहदो देवतया पूरित इति मलिः । १८। मन्यते जगतस्त्रिकालाऽवस्थामिति मुनि: “मनेरुदेतो चास्य वा” ( उणा-६१२) इति इप्रत्यये उपान्त्यस्योत्वम्, शोभनानि व्रतान्यस्येति सुव्रतः, मुनिश्चासौ सुव्रतश्च मुनिसुव्रतः, तथा गर्भस्थे जननी मुनिवत्सुव्रता जातेति मुनिसुव्रतः । २० । परोषहोपसर्गादिनामनाद “-नमेस्तु वा" ( उणा-६१३ ) इति विकल्पेनोपान्त्यस्येकाराभावपक्ष नमिः, तथा गर्भस्थे भगवति परचक्रनृपैरपि प्रणतिः कृतेति नमिः । २१ । धर्मचक्रस्य नेमिवनेमिः, तथा गर्भस्थे भगवति जनन्या रिष्टरत्नमयो महानमिदृष्ट इति रिष्टनेमिः, अपश्चिमादिशब्दवत् नपूर्वत्वेऽरिष्टनेमिः । २२ । पश्यति सर्वभावानिति निरुक्तात् पार्खः, तथा गर्भस्थ जनन्या निशि शयनीयस्थयाऽन्धकारे सर्पो दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति पार्खः, पार्योऽस्य वैयावत्यकरस्तस्य नाथः पार्श्वनाथः, भीमो भीमसेन इतिवत् पार्खः । २३ । उत्पत्तेरारभ्य ज्ञानादिभिवर्धत इति वर्धमानः, तथा भगवति गर्भस्थे ज्ञातकुलं धनधान्यादिभिर्वर्धत इति वर्धमानः । २४ ।Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 162