Book Title: Yogshastra Part 05
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 4
________________ ६३४ योगशास्त्रे समुदायार्थः सुगमः । पदार्थस्तु विभज्यते, स च सामान्यतो विशेषतश्च । तत्र सामान्यतः ऋषति गच्छति परमपदमिति ऋषभः, “उट्टत्वादो” ॥ ८ । १ । १३१ ॥ इत्युत्वे उस हो । वृषभ इत्यपि वर्षति सिञ्चति देशनाजलेन दुःखाग्निना दग्धं जगत्, इत्यस्यान्वर्थः, “वृषभे वा वा" || ८ | १ | १३३ ॥ इति वकारेण ऋत उत्वेऽस्यापि उसहो । विशेषतस्तु ऊर्वोर्वृषभो लाञ्छनमभूद्भगवतः, जनन्या च चतुर्दशानां स्वप्नानामादावृषभो दृष्टस्तेन ऋषभो वृषभो वा । १ । परोषहादिभिर्न जित इति अजितः, तथा गर्भस्थे भगवति जननी द्यूते राज्ञा न जिता इत्यजित: । २ । सम्भवन्ति प्रकर्षेण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, शं सुखं भवत्यस्मिन् स्तुते इति शम्भवो वा, तत्र “शषोः सः” ॥ ८|१|२६०॥ इति सत्वे सम्भवः, तथा गर्भगतेऽप्यस्मिन् अभ्यधिकसस्यसम्भवा-. सम्भवः । ३ । अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दन:, तथा गर्भात्प्रभृति एवाऽभोक्ष्म शक्राद्यभिनन्दनात् अभिनन्दन: । ४ । सु शोभना मतिरस्येति सुमतिः, तथा गर्भस्थे जनन्याः सुनिश्चितা मतिरभूदिति सुमतिः । ५ । निष्पङ्कतामङ्गीकृत्य पद्मस्येव प्रभा यस्याऽसौ पद्मप्रभः, तथा पद्मगयनदोहदो मातुर्देवतया पूरित इति पद्मवर्णश्च भगवानिति पद्मप्रभः | ६ | शोभनाः पार्खा अस्येति सुपार्श्वः, तथा गर्भस्थे भगवति जनन्यपि सुपार्खा जाति सुपार्श्वः । ७ । चन्द्रस्येव प्रभा ज्योत्स्ना सौम्य लेश्या विशेषोऽस्येति चन्द्रप्रभः, तथा देव्याश्वन्द्रपानदोहदोऽभूत्, चन्द्रसमवर्णश्च भगवानिति चन्द्रप्रभः । ८ । शोभनो विधि: सर्वत्र कौशलमस्येति

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 162