Book Title: Yogshastra Part 05
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 9
________________ हतीयः प्रकाश: । 'मप्पं मयणे जणणी जं पासइ तमसि तेण पासजिणो । वड्ढइ य नायकुलं ति अ तेण जिणो वडमाणु त्ति ॥ १२ ॥ पति कीर्तनं कृत्वा चेतःशुद्ध्यर्थं प्रणिधानमाह एवं मए अभिथुआ विहअरयमला पहीणजरमरणा। .. चउवौसं पि जिणवरा तिस्थयरा मे पसीअन्तु ॥ ५ ॥ एवमनन्तरोदितेन विधिना मयेत्यात्मनिर्देश:, अभिष्टुता भाभिमुख्येन स्तुता: स्वनामभिः कीर्तिता इत्यर्थः । किंविशिष्टास्ते, विधूतरजोमला:-रजच मलं च रजोमले, विधूते प्रकम्पिते अनेकार्थत्वादपनीते वा रजोमले यस्ते विधूतरजोमलाः, बध्यमानं च कर्म रजः. पूर्वबई तु मलम्, अथवा बद्धं रजो निकाचितं मलम्, अथवा ऐर्यापथं रज:, साम्परायिकं मलमिति । यतश्चैवंभूता अत एव प्रक्षीणजरामरणा: कारणाभावात् । चतुर्विंशतिरपि, अपिशब्दादन्येऽपि जिनवराः श्रुनादिजिनेभ्यः प्रकृष्टाः. ते च तीर्थकरा इति पूर्ववत्, मे मम, किं ? प्रसीदन्तु प्रसादपरा भवन्तु । ते च वीतरागत्वाद्यद्यपि स्तुता: तोषम्, निन्दिताश हेषं न यान्ति, तथाऽपि स्तोता स्तुतिफलम्. निन्दकश्च निन्दाफलमानोत्येव, यथा चिन्तामणिमन्त्राधाराधकः ; यदवोचाम वीतरागस्तवे अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतना: ? ॥ १ ॥ (१) सर्प शयने जननी यत् पश्यति तमसि तेन पाश्वजिनः । वर्धते च जातकुन्नमिति च तेन जिनो वर्धसान इति ॥ १२ ॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 162