Book Title: Yogshastra Part 05
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
· योगशास्त्रे इत्युतामेव। अथ यदि न प्रसौदन्ति, तत्विं प्रसीदन्विति तथा प्रलापन ? । नैवम् । भक्त्यतिशयत एवमभिधानेऽपि न दोषः । यदाह-क्षीणक्लेशा एते नहि प्रसौदन्ति, न तत्स्तवोऽपि वृथा, तत्स्तवभावविशुद्धेः, प्रयोजनं कर्मविगम इति ॥ ५ ॥ तथाकित्तित्र वंदिअ महिमा जेए लोगस्म उत्तमा सिडा। .
पारुग्गबोहिलाभं समाहिवरमुत्तमं दिंतु ॥ ६ ॥ कीर्तिताः स्वनामभिः प्रोक्ता:. वन्दितास्त्रिविधयोगेन सम्यक् स्तुताः, महिताः पुष्पादिभिः पूजिताः । ममा इति पाठान्तरम, तत्र मयका मया । के एते ?, इत्याह-ये एते लोकस्य प्राणिवर्गस्य कर्ममलकलङ्काभावनोत्तमाः प्रक्वष्टाः, सिद्धान्ति स्म सिद्धाः कतक्तत्या इत्यर्थः, अरोगस्य भाव आरोग्यं सिद्धत्वं तदर्थम्, बोधिलाभ: अर्हप्रणीतधर्मप्राप्तिरारोग्यबोधिलाभः, स ह्यनिदानो मोक्षायैव भवति तम्, तदर्थं च समाधिवरं वरसमाधि परमस्वास्थ्यरूपं भावसमाधिमित्यर्थः, असावपि तारतम्यभेदादनेकधैव, अत पाहउत्तमं सर्वोत्कृष्टं ददतु प्रयच्छन्तु, एतच्च भत्त्याच्यते । यत उत्ताम्
'भासा असच्चमोसा नवरं भत्तीइ भासिया एसा । न हु खीण पिज्जदोसा दिति समाहिं च बोहिं च ॥१॥ इति
(१) भाषा अमत्यमृषा नवरं भक्तरा भाषितेषा।
न खलु क्षीणप्रेमदोषा ददति समाधि च बोधि च ॥ १ ॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 162