Book Title: Yashodhar Charitam
Author(s): Bhagchandra Jain
Publisher: Sanmati Research Institute of Indology

Previous | Next

Page 152
________________ १४४ यशोधरचरित्रम् प्रतिन्मम दयां कृत्वा,गृहाण गुरुदक्षिणाम् । प्रज्ञप्त्याख्यां महाविद्यां सर्वभोगादिदायिनीम् ॥५१॥ अन्वाह क्षुल्लको देवि त्वया मे वंदना कृता।. . गृहीतः परमो धर्मो नोऽत्रतेन प्रपूर्यते ॥५२॥ . यतः श्रीहेमभूधाममंत्रतंत्रांजनादिभिः । विद्यया चांगिनां दीक्षा नश्यत्यत्रातिरागतः॥५३॥ ततोऽतिनिर्ममत्वं च निःसंगत्वं विरागताम्। . .. सा वात्सल्यादिकं ज्ञात्वा ननामास्य क्रमांबुजम् ॥५४।। अथासौ सहयोपेतं सर्वाध्यक्षं नृपं जगौ। ... . सद्वचो धर्ममूलं त्वं मारिदत्त शृणु स्फुटम् ॥५५॥ अद्य प्रभृति जीवानां वध नामापि मा जनाः। गृहणीध्वं चेतसा जातु घोरपापनिबंधनम् ॥५६॥ एवं कृते च युष्माकं सर्वशान्तिः सुभिक्षिता। , जायतेऽत्रान्यथा कृत्स्नरोगक्लेशादिकं महत् ॥५७॥ . एवमुक्त्वा सभामध्ये त्रिःपरोत्य निजं गुरुम् । मुदा नत्वा मुहुः पादौ ततो देवी तिरोदधे ॥५॥ संवेगं परमं प्राप्या [थावोचत्] तं महीपतिः। ' दीक्षां प्रयच्छ पापघ्नामद्य नः क्षुल्लकप्रभो ॥५६।। आह सोऽत्र समर्थो ऽहं दातुं दीक्षां न ते नृप। दीक्षार्थं किंतु यामो मद्गुरूणां निकटे द्रुतम् ॥६॥ साश्चर्यः सोऽन्विदं चित्ते चिंतयामास शुद्धधीः। सामंतादिमहीपालाः स्वमूर्ना मां नमंत्यहो ॥६॥ देवतां प्रभजेऽत्राहं सा नमत्येव क्षुल्लकम् । [स चापरं] यतीशञ्च धर्ममहात्म्यमीदृशम् ॥६२॥ १.क. कृत्वा । २. क. ख. ग. घ. अथोवाच । ३. क.ख. ग. घ. सोप्यपरं।

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184