________________
१४४
यशोधरचरित्रम् प्रतिन्मम दयां कृत्वा,गृहाण गुरुदक्षिणाम् । प्रज्ञप्त्याख्यां महाविद्यां सर्वभोगादिदायिनीम् ॥५१॥ अन्वाह क्षुल्लको देवि त्वया मे वंदना कृता।. . गृहीतः परमो धर्मो नोऽत्रतेन प्रपूर्यते ॥५२॥ . यतः श्रीहेमभूधाममंत्रतंत्रांजनादिभिः । विद्यया चांगिनां दीक्षा नश्यत्यत्रातिरागतः॥५३॥ ततोऽतिनिर्ममत्वं च निःसंगत्वं विरागताम्। . .. सा वात्सल्यादिकं ज्ञात्वा ननामास्य क्रमांबुजम् ॥५४।। अथासौ सहयोपेतं सर्वाध्यक्षं नृपं जगौ। ... . सद्वचो धर्ममूलं त्वं मारिदत्त शृणु स्फुटम् ॥५५॥ अद्य प्रभृति जीवानां वध नामापि मा जनाः। गृहणीध्वं चेतसा जातु घोरपापनिबंधनम् ॥५६॥ एवं कृते च युष्माकं सर्वशान्तिः सुभिक्षिता। , जायतेऽत्रान्यथा कृत्स्नरोगक्लेशादिकं महत् ॥५७॥ . एवमुक्त्वा सभामध्ये त्रिःपरोत्य निजं गुरुम् । मुदा नत्वा मुहुः पादौ ततो देवी तिरोदधे ॥५॥ संवेगं परमं प्राप्या [थावोचत्] तं महीपतिः। ' दीक्षां प्रयच्छ पापघ्नामद्य नः क्षुल्लकप्रभो ॥५६।। आह सोऽत्र समर्थो ऽहं दातुं दीक्षां न ते नृप। दीक्षार्थं किंतु यामो मद्गुरूणां निकटे द्रुतम् ॥६॥ साश्चर्यः सोऽन्विदं चित्ते चिंतयामास शुद्धधीः। सामंतादिमहीपालाः स्वमूर्ना मां नमंत्यहो ॥६॥ देवतां प्रभजेऽत्राहं सा नमत्येव क्षुल्लकम् । [स चापरं] यतीशञ्च धर्ममहात्म्यमीदृशम् ॥६२॥
१.क. कृत्वा । २. क. ख. ग. घ. अथोवाच । ३. क.ख. ग. घ. सोप्यपरं।