________________
अष्टमः सर्गः
2
ताथावधिना ज्ञात्वा मारिदत्तं प्रबोधितम् । आगतो योगिभिः सार्द्धं सुदत्त - मुनिपुंगवः ॥ ६३ ॥ शिलातले समासीनं मूर्ध्वा तं क्षुल्लकः समम् । मारिदत्तादिभिर्भक्त्या ननामाशु परैर्जनैः ॥ ६४ ॥ ततो नत्वा नृपोऽवादीत्त मे नाथ निरूपय । भवावली:- कृपां कृत्वा सर्वसन्देहनाशनीः ॥ ६५॥ यशोर्थ-चंद्रमत्योर्मे यशोधरमहीपतेः । •अमृतादिमहादेव्या भैरवानंद-योगिनः ॥६६॥ राज्ञाश्च कुसुमावल्या यशोमतिमहीपतेः । चंडभार्यास्तथाऽश्वस्य गोवर्द्धनवणिक्पतेः ॥६७॥ कुब्जकस्यापि कोणस्य सर्वान् पूर्वभवान्प्रभो । पुण्यपापफलोत्पन्नान् कथयानुग्रहाय मे ॥ ६८ ॥ अथावादीन्मुनींद्रोऽसावेकचित्तेन भूपते ।
शृणुते ऽहं समासेन वक्ष्ये तेषां कथाः शुभाः || ६ || अत्र गंधर्वदेशोस्ति गंधर्वपुरनायकः । गंधर्वाख्यो नृपस्तस्य विध्यश्रीः स्यान्मनोरमा ॥७०॥ तयोर्गंधर्वसेनाख्यः पुत्रोऽभूत् पुत्रिका तथा । गंधर्वश्रीः स पुण्येन भुंक्ते राज्यसुखं मुदा ॥७१॥ . तद्राज्ञो राम नामासीन्मंत्री तस्य प्रियाऽभवत् । चंद्रलेखा तयोस्तु जितशत्र - भीमसंज्ञको ॥७२॥ स्वयंवरविधानेन ह्य कदा जितशत्रुणा । विभूत्या परिणीता सा गंधर्वश्री नृपात्मजा ॥७३॥
१. क. भवावलीं ।
२. क. नाशनीम् ।
३. क. ख. ग. भूपतेः ।
१४५.