________________
१४६
यशोधरचरित्रम्
गंधर्वोऽगात्कदाचिच्च आखेटार्थं नृपो वनम् ।
तत्रैकं मृगमुद्दिश्य स मुमोच शरं व्यधात् ॥ ७४ ॥ तन्मृगी भर्तृ स्नेहेन प्रविष्टास्यांतरे तदा । नष्ट भयातुरो दूरं स राज्ञा सा मृता मृगी ॥ ७५ ॥ आरोपितां स्वभृत्यस्य स्कंधे पश्यन्पराङ्मुखः । स दृष्ट्वा तां भ्रमन् दोनो रटे स्नेहादितोऽमुतः ॥ ७६ ॥ विलोक्य तं वियोगार्तं भूपो निर्वेदमवाप सः । संसार-देह-भोगेषु कारुण्यात्तत्क्षणं शुभात् ॥७७॥ धिग्मां च कामुकं मूढं कार्याकार्याविचारकम् । परपीडाकरं निद्यं पापिनं प्राणिघातिनम् ||७८ || इत्यात्मानं विनिद्योच्चैर्हत्वा राज्यं तदा ददौ । दोक्षां शर्मखनीं कुर्यात्तपोऽत्र विविधं मुनिः ॥ ७६ ॥ गंधर्वसेन एवापत् पितृराज्यं शुभोदयात् । कोश-सैन्यादिजां लक्ष्मीं चाधिकां स्वपितुः क्रमात् ॥ ८०॥ भक्त्या गंधर्वसेनेनेकदा गत्वा पिता निजः । संन्यासस्थो महाभूत्या वंदितो धर्महेतवे ॥ ८१ ॥ पुत्रर्भात विलोक्याशु स निदानं चकार वै । ईदृग्विभूतये मूढः संसारासक्तिकारणम् ॥८२॥ माणिक्येन यथा काचं गर्द्दमं हस्तिनाऽत्र च । कश्चिदुर्बुद्धिरादत्ते तथा सा तपसा श्रियम् || ३ || उज्जयिन्यां ततो मृत्वा यशोबंधुर- भूपतेः । यशोर्थाख्यः सुतः सो ऽमून्निदानाच्छ्री विमंडितः ॥ ८४ ॥ परिव्राजकवेषं सा धृत्वा मासादिप्रोषधात् । कायक्लेशं च कृत्वा विध्यश्रीमं त्वा ततोऽभवत् ॥ ८५ ॥
अजितांगदराजस्य पुत्री चंद्रमती शुभा । परिणीता 'यशोर्थेन पूर्व मिथ्यात्ववासिता ॥ ८६ ॥
१. कीर्तिघोषेन ।