________________
अष्टमः सर्गः
या मंत्रिसूनुना' भ्रष्टा परिणीता नृपात्मजा। भीमाख्य देवरेणाभा कामासक्ता बभूव सा ॥७॥ तदुराचारमालोक्य केनचित्प्रतिपादितम् । नारीनिंदां विधायाथ वैराग्यं भोगवस्तुषु ॥८॥ त्यक्त्वा श्रियं च तां पापा [मग्रहीत्] संयमं परम् । जितशत्रुः सुधी मुक्त्यै शीघ्र विश्वसुखार्णवम्॥६॥ विधिना नु तपः कृत्वा मृत्वा यशोर्थभूपतेः। चंद्रमत्यां सुतः सोऽभूद्यशोधर' समाह्वयः॥१०॥ भूपपुत्र्याश्चरित्रं तद् दृष्ट्वा कामविरक्तधीः । ब्रह्मचर्य स जग्राह राममंत्री स्वभार्यया ॥१॥ ब्रह्मचर्यफलेनातस्त्यक्त्वा प्राणान् बभूवतुः । विजयाईगिरौ तो दंपती विद्याधरौ शुभौ ॥१२॥ गंधर्वसेन भूपोऽपि कुकर्म भगिनीभवम् । तच्छ त्वा तां विनिंद्योच्च निर्वेदं प्राप धामनि ॥३॥ हित्वा सर्व निजं राज्यं सतां त्याज्यं समाददे। दीक्षां मृक्तिसखीं रम्यां वंद्यां लोकत्रयाधिः ॥१४॥ ततस्तपो विधायोच्चैरते संन्यासमेव च। निदानेनात्र संजातो मारिदत्तस्त्वमेव हि ॥१५॥ शोषयित्वा स्वकायं सा गंधर्वश्री तपोग्निना। जातामृता महादेवी मृत्वा शीलादिद्दूरगा ॥६॥ दुराचारी स भीमोऽपि मृत्वाऽभूत्कुब्जकोऽधमः। अतः कथानकं राजन् शृण्वन्यद्धर्मकारणम् ॥१७॥
१. जितशत्रु । २. ख. ग. घ. दुष्टा। ३. गंधर्वसेना। ४. क.ख. ग. घ. जग्राह । ५. पूर्वभवे जितशत्रुः। क. पन्द्रलेखया सहितः।