________________
यशोधरचरित्रम् अथ काचित्तपः कृत्वा स्त्रोतापसमतोद्भवम् । दत्वा कुपात्रदानं तत्फलतः प्राग्भवे शठा ॥८॥ यशोर्थनृपतेर्जाता चन्द्रलक्ष्मी: प्रिया शुभा। .. चंद्रमत्याः सपत्नी सा वरद्वेषान्विताशया ॥६॥ ततोऽर्जिताघपाकेन मृत्वाभूद् घोटको महान्। ... उज्जयिन्यां हतः पूर्ववैरेण महिषेण सः ॥१०॥ चंद्रमती चरेणाशु जलं पातुं समागतः। सिप्रानदीमतो राजन् वैरं कार्यं न केनचित् ।।१०१।। मृत्वा स मिथिलापुर्यां जिनदत्तस्य श्रेष्ठिनः। . दृग्वतालंकृतस्तापि गृहेऽभूवृषभोऽशुभात् ॥१०२॥ धेनुगर्भेऽशुभेऽतीव पीडितांगोऽतिदुःखभाक् । म्रियमाणस्य तस्यैकदा वृषभंस्य धीमता ॥१०॥ .. प्रदत्तः श्रेष्ठिना पंचनमस्कारो हितेच्छुना । सर्वसौख्याकरः सारो विश्वविघ्नविनाशकः ॥१०॥ महामंत्रफलेनासौ मृत्वा स वृषभो नृपः। त्वद्भार्या रूपिणीगर्भे ह्यवतीर्णोऽत्र वर्तते ॥१०॥ स ते राज्यश्रिय भोक्ता भविष्यति न संशयः। स्वकुलांबरसूर्योऽनुपमाऽनेकगुणमंडितः ॥१०६॥ . प्राक्तनो राममंत्री यो जातो विद्याधरः पुनः। .. अणुव्रतादिना पुण्यमर्जयित्वा शुभोदयात् ॥१०॥ मुक्त्वा प्राणान् शुभध्यानात् यशोधरमहीपतेः । यशोमतिकुमारोऽभूत्साऽतोऽतिसुंदराकृतिः ॥१८॥ प्राक्तना मंत्रिपत्नी या चंद्रलेखा खगी ततः। . सापि भ; समं पाल्य कोनिचित्सवि॒तान्यतः ॥१०॥
१. चंद्रलेखा।