________________
१४
अष्टमः सर्गः । हत्वा कायं स्वपुण्येन जातात्र कुसुमावली। भवत् सहोदरी भूप यशोमतिरतिप्रदा ॥११०॥ चित्रांगदो ऽथ भूपस्ते पिताऽसीद् यो महीपतेः। तुल्यं राज्यं प्रदायाभूत्परिव्राजक एव सः॥१११॥ परिभ्रम्य कुतीर्थानि क्लेशयंस्तपसा वपुः । अज्ञानेनैकदा प्राप प्राक्तनं स्वपुरं शठः ॥११२॥ अत्र देव्या मठे दृष्ट्वा जनैः कृतमहोत्सवम् ।
देवतायै विधायाशु निदानं मूढमानसः ॥११३॥ • मृत्वा स चंडमारोयं जातां देवी निदानतः।
अतो राजन्निदानं न कर्त्तव्यं भवकारणम् ॥११४॥ तेऽप्यासीच्चित्रलेखा या माता [पूर्वतने] भवे । सा मृत्वा भैरवानंद: संजातोऽयं विधेर्वशात् ॥११५।। अतो मम कथां राजन् प्राक्तनां शृण संभवेत् । उज्जयिन्यां महीपालो यशोबंधुर नामभाक् ॥११॥ करोति मिश्रभावेन दानपूजादिकं सदा। कुलिंगिनां मुनीनां च भक्ति [व्यामूढमानसः] ॥११७॥ मृत्वा स शुभभावेन कलिंगविषये सुतः। . भगदत्तस्य राज्ञोहं जातो वैराग्यमानसः ॥११८॥ उज्जयिन्यां यशोर्थस्य गुणसिंधुसमाह्वयः। आसीन्मंत्रो विचारज्ञो यः स दत्वा निजं पदम् ॥११॥ नागदत्ताय पुत्राय शुभध्यानेन संस्थितः। स्वगृहे नयपाकेन कृत्वा प्राणविसर्जनम् ॥१२०॥
१. चित्रांगद-राजा चंडमारी देवी जाता इत्यर्थः । १.क.ख. ग. घ. प्राक्तने। ३. क.ख. ग. घ. स मूढमानसः ।