________________
180
यशोधरचरित्रम्
पुत्रोऽभूच्छ्रीपतेः श्रेष्ठिनो गोवर्द्धन नामभाक् । यशोमतेर्महामित्रो दृग्वतादिविभूषितः ॥ १२१ ॥ इत्युक्ता मुनिना सर्वाः कथाः श्रुत्वा नृपो मुदा । निर्वेदं भव-भोगादौ प्राप्यावादीद्यतिं प्रति ॥ १२२॥ भगवन् मे कृपां कृत्वा' दीक्षां देह्यघनाशनीम् । भव-भ्रमण भीतस्य मुक्तिकांतासखीं पराम् ।। १२३ । ततो हित्वा द्विधा ग्रंथं पंचत्रिंशन्नृपैः समम् । आददे संयमं मुक्त्यै मुनीन्द्रवचनेन सः ॥ १२४ ॥ कौलिको भैरवानंदो नत्वा तत्पादपंकजम् 1 विनिंद्य स्वं दुराचारं ययाचे मुनिसंयमम् ।।१२५|| योग्याह भद्र ते दीक्षा विद्यते न जिनागमे । स्वखंडांगुलिदोषेणाऽतो गृहाण मुदा द्रुतम् ।।१२६।। श्रावकव्रत सर्वाणि संन्यासेन समं यतः । द्वाविंशति दिनान्येव जीवितव्यं तवास्ति वं ॥ १२७॥ ततो मुनीन्द्र-वाक्येन व्रतं सन्याससंयुतम् । मुदादाय सुधीः सोऽस्थाद्धर्मध्यानेन मुक्तये ॥१२८॥ चतुराराधनां' सोंऽते आराध्य स्वमनो दृढम् । स्थापयित्वा जिनेन्द्रांघ्रौ विशोध्याशु निजं वपुः ॥ १२ ॥ तपसां गं परित्यज्य द्वाविंशति दिनेन च । सनत्कुमारनाके भैरवानंदोऽमरोऽभवत् ॥ १३० ॥ निरौपम्यं निराबाधं कृत्स्नाक्षप्रीणनक्षमम् । चिरं भुंक्ते सुखं देवोऽमा देवीभिर्महद्धिकः || १३१|| नत्वाऽभय रुचिस्तत्र स्वगुरुं मुक्तिहेतवे । सुषत्वा बाह्यांतरं संग बृहद्दीक्षां समाददे ||१३२||
१. क. ख. ग. घ. मे भगवन् कृपां कृत्वा । २. दर्शन - ज्ञान - चारित्र -तप इत्यर्थः ।