________________
अष्टमः सर्गः हत्वाऽभयमतिः संगमार्यिकाशु बभूव सा। मातुरंतेथ नाशाय धर्मध्यानपरायणा ॥१३३॥ आदाया ऽनशनं यावज्जोवं निश्चलमानसौ। शुभध्यानरतौ धीरौ धर्मध्यानेन तौ स्थितौ ॥१३४॥ दृक्शुद्धि ज्ञानवृत्तौ च निर्मलौ तौ तपोऽनघम् । आराध्य जिनपादौ च धर्मध्यानं स्वभावनाम् ॥१३५।। कृशीकृत्य निजं देहं पक्षेन [तपादिभिः] । जित्वा परीषहान् सर्वांस्तत्र देवी वने शुभे ॥१३६।। त्यक्त्वा प्राणान् शुभध्याने नैशाने सुरसत्तमौ। कल्पे बभूवतुर्हत्वा स्त्रीलिंग दृग्विशुद्धितः ।।१३७।। ज्ञात्वा सांवधिना पूर्वे भवं च स्वतपः फलम् । जैने तो शासने रम्ये दृढचित्तौ बभूवतुः ॥१३८॥ ततोऽकृत्रिमचैत्यालयेषु मेर्वादिषु स्वयम् । कुरुतः परमां पूजां कल्याणेषु जिनेशिनाम् ।।१३६।। देवीभिर्विविधां क्रीडां क्रीडाद्रौ च वनादिषु । क्रीडतो मधुरैर्गीत नृत्यैर्नेत्र प्रियंकरैः ॥१४०॥ स्रग्दिव्यांवरभूषाद्यौ सप्तधातुविजितौ। त्रिज्ञानिनौ सुरैः सेव्यो विश्वाशर्मातिगौ सुरौ ॥१४१॥ भंजानौ विविधं शर्म निरौपम्यं दिवास्पदे। गतं कालं न जानंतो तिष्ठतस्तौ शुभोदयात् ॥१४२।। ततोऽगमत्सुदत्ताख्यो गणी विध्यगिरि समम् । संघेनासन्नभव्यानां कुर्वत् संबोधनं परम् ।।१४३॥ तत्रादायाथ संन्यासं त्यक्त्वाहारं चतुर्विधम् । आराधना विधानं चतुर्धाराध्य दृढव्रती ।।१४४।।
-- १. क.ख. ग. घ. तपसादिभिः ।