________________
१५२
यशोधरचरित्रम्
स्वप्राणान्विधिना त्यक्त्वा स्वतपः परिपाकतः । स कल्पे लांतवाख्येऽभून्महान् देवो महर्द्धिकः ।। १४५ ।। महद्धिकामरैः सेव्यो देवीभिश्च स प्रत्यहम् । कुर्वन् पूजां जिनेन्द्राणां मग्नोऽस्था च्छर्मसागरे || १४६ । यशोमतिर्मुनिर्मारिदत्तो गोवर्धनो यतिः । तपसा क्षीणसर्वांगा आर्यिका कुसुमावली ॥ १४७॥ एते सर्वे प्रपात्योच्चैः प्रव्रज्यां परमेश्वरीम् । अंते संन्यासमादाय प्राणांस्त्यक्त्वा समाधिना ॥ १४८ ॥ स्वस्व [व्रता]] नुसारेण जाताः स्वर्गे यथायथम् । देवा महाद्धिकाः सेव्या देवताभिनिरंतरम् ॥१४६॥ एवं देवर्गात वृषोदयवशाद्यांत्येव सद्धार्मिकाः, पापा दुर्गतिमेव पापनिरता मिथ्यात्व संवासिताः । ज्ञात्वेतीह विहाय पापमखिलं मिथ्यात्वमूलं च भो, धम्मं विश्वसुखार्णवं प्रतिदिनं यत्नात्कुरुध्वं बुधाः ॥ १५०॥
धर्मः श्रीजिनभाषितः सुखनिधिः धर्मः सुमित्रः सतां, धर्मः श्वभ्रग्रहार्गलः शिवपथो धर्मश्च माता पिता ।
धर्मो बांधव एव नाकपदकृत्स्वामी च धर्मः परी, धर्मो दृग्जनितः शिवाय भवतात् सद्धर्मिणां नोऽत्र च ।। १५१।। तीर्थेशा आखिलाश्च ये ऽन्तरहिताः सिद्धास्त्रिलोकाधिपाः, सर्वे यत्र मुनीश्वरा हितकराः स्वर्मोक्ष-सौख्यप्रदाः । वंद्या विश्वजनैः सदास्तुतपदाः पूज्याश्च नाकाधिपैः, अंतातीतगुणार्णवा स्वविभवं दद्युश्च ते नोऽखिलाः ।। १५२ ॥
यशोधराख्यं विमलं चरित्रं,
पठति ये भव्यजनास्त्रिशुद्ध या । वंति प्राप्य शुभं च नाकं, सद्दृष्ट्यो यांति शिवं क्रमात्ते ॥ १५३ ॥
१. क. ख. ग. घ. स्वस्वतपोऽनुसारेण ।