Book Title: Yashodhar Charitam
Author(s): Bhagchandra Jain
Publisher: Sanmati Research Institute of Indology

Previous | Next

Page 150
________________ यशोधरचरित्रम् भवाब्धो पतनात्पापां त्वं मां त्रायस्व सत्पते। . दुष्टाहं किं करोम्यत्र स्वजन्मप्राणिनाशकृत् ॥२५॥ आकर्ण्य तद्वचो दीनं कृपया क्षुल्लको जगी। तां स्वपादाब्ज संलग्नांसर्वांगभयकंपिताम् ॥२६॥ उत्तिष्ठोत्तिष्ठ हे देवि ! रोदनं मा वृथा कुरु। यतो धर्म विनात्रै नान्यच्छरणमंगिनाम् ॥२७॥ एकाकी जायते संगी म्रियते च स्वकर्मणा। चतुर्गतिमयं घोरं भ्रमत्येको भवं चिरम् ॥२८।। सुखी दुःखी धनी चैको निर्धनोऽनेकवेषकृत् । नीरोगो रोगवानेको न सहायोऽस्य कश्चन ।।२६।। अतो जीवदयोपेतं कुरु धर्म जिनोदितम् । पापाशर्मवने दावं सौख्यरत्नाकरं परम् ॥३०॥ इत्याकर्ण्य वचस्तस्य तं प्रत्याहामरी पुनः । कृपया मे ददस्वाशु स्वामिन् दीक्षा भवापहाम् ॥३१॥ शास्त्रवित् क्षुल्लकोऽवादीदेवि दीक्षा न विद्यते। नारकाणां तिरश्चां च गीर्वाणानां तथा शृणु ॥३२॥ सप्तव्यसनिनो रौद्रा निर्दयाः पापपंडिताः । महारंभकृतः कृष्णलेश्यास्तीव्रकषायिणः ॥३३॥ जिनागमगुरूणां च निंदकाश्चातिलोभिनः । महामिथ्यात्वसंसक्ताव्रतदानादिपूरगाः ॥३४॥ . स्वेच्छाक्षविषयासक्ता जिनधर्मनिवारकाः । एवमादिक्रियोपेताः यांति श्वभ्र यथोचितम् ॥३५।। तेषां दुःखाग्निमग्नानामातंरौद्रपरायिणाम् । नारकाणां व्रतांशो न विद्यते जातु दुविधेः ॥३६॥ मायाविनोऽति निःशीलाः परवंचनतत्पराः। मार्तध्यानरता मूढा नीललेश्यानिदानिनः ।।३७।। नित्यस्नानकरा वृक्षपशुसेवापरायणाः। इत्याद्याचरणासक्ता यांति तिर्यग्गतिं जनाः॥३८॥

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184