________________
यशोधरचरित्रम् भवाब्धो पतनात्पापां त्वं मां त्रायस्व सत्पते। . दुष्टाहं किं करोम्यत्र स्वजन्मप्राणिनाशकृत् ॥२५॥ आकर्ण्य तद्वचो दीनं कृपया क्षुल्लको जगी। तां स्वपादाब्ज संलग्नांसर्वांगभयकंपिताम् ॥२६॥ उत्तिष्ठोत्तिष्ठ हे देवि ! रोदनं मा वृथा कुरु। यतो धर्म विनात्रै नान्यच्छरणमंगिनाम् ॥२७॥ एकाकी जायते संगी म्रियते च स्वकर्मणा। चतुर्गतिमयं घोरं भ्रमत्येको भवं चिरम् ॥२८।। सुखी दुःखी धनी चैको निर्धनोऽनेकवेषकृत् । नीरोगो रोगवानेको न सहायोऽस्य कश्चन ।।२६।। अतो जीवदयोपेतं कुरु धर्म जिनोदितम् । पापाशर्मवने दावं सौख्यरत्नाकरं परम् ॥३०॥ इत्याकर्ण्य वचस्तस्य तं प्रत्याहामरी पुनः । कृपया मे ददस्वाशु स्वामिन् दीक्षा भवापहाम् ॥३१॥ शास्त्रवित् क्षुल्लकोऽवादीदेवि दीक्षा न विद्यते। नारकाणां तिरश्चां च गीर्वाणानां तथा शृणु ॥३२॥ सप्तव्यसनिनो रौद्रा निर्दयाः पापपंडिताः । महारंभकृतः कृष्णलेश्यास्तीव्रकषायिणः ॥३३॥ जिनागमगुरूणां च निंदकाश्चातिलोभिनः । महामिथ्यात्वसंसक्ताव्रतदानादिपूरगाः ॥३४॥ . स्वेच्छाक्षविषयासक्ता जिनधर्मनिवारकाः । एवमादिक्रियोपेताः यांति श्वभ्र यथोचितम् ॥३५।। तेषां दुःखाग्निमग्नानामातंरौद्रपरायिणाम् । नारकाणां व्रतांशो न विद्यते जातु दुविधेः ॥३६॥ मायाविनोऽति निःशीलाः परवंचनतत्पराः। मार्तध्यानरता मूढा नीललेश्यानिदानिनः ।।३७।। नित्यस्नानकरा वृक्षपशुसेवापरायणाः। इत्याद्याचरणासक्ता यांति तिर्यग्गतिं जनाः॥३८॥