________________
अष्टमः सर्गः
बधिरैर्दश्रुते ज्ञानवेत्रैस्तीर्थादिदर्शभिः । माद्यालोक चांधेः सुतीर्थगमनात्मभिः ॥ १२ ॥
'कुतीर्थव्रजखजेनिष्ठुरैः कार्म्मघातने । सर्वप्राणिदयोपेतैः कामारिध्वंस निर्दयैः ॥ १३ ॥ रामाभिलाषहीनैश्च मुक्तिकांतांभिलाषिभिः । परीषहजये धीरैः कर्मबंधेऽतिकातरैः ॥ १४ ॥ स्वल्पलोभातिर्गस्त्रैलोक्य (राज्याद्भुत ] ' लोलुपैः । अल्पाक्षसुख संत्यक्तैरनंतसुखकांक्षिभिः ॥ १५ ॥ इत्यादिगुणसंपूर्णः योगिभिः सह बोधयन् । भव्यांस्तव नगरोपांतमथाद्य प्रहरे गते ||१६||
आगमद्धर्मसंवेगज्ञानध्यानपरायणः । सुदत्ताख्यो महासू रिजिनमार्गप्रभावकः ॥ १७॥ विशंतो तत्पुरं राजन् भिक्षार्थं स्वेच्छया ततः । संग्राह्यात्रां समानोतौ भवद्भृत्यैरिहाध्वतः ॥ १८ ॥ इति राजन् त्वया पृष्टं यत्स्पष्टं चेष्टितं भुवि । मेऽनुभूतं श्रुतं दृष्टं तत्सर्वं कथितं मया ॥ १६ ॥ ब्रह्मचारिवचः श्रुत्वा देवो संविग्नमानसा | सर्वथाप्यगिनां घातं मुमोचाशुव्रतं बिना ॥ २० ॥ तुष्टा सा तद्वनं रम्यं सर्वर्तुफलशोभितम् । चकार पत्रपुष्पाठ्यं तदास्थ्यादिविवर्जितम् ॥ २१॥ मुक्त्वा स्वं भीषणं रूपं विक्रियद्धितयामरी । जग्राह सुंदरं सौम्यं दिव्यभूषणभूषितम् ॥२२॥ ततो देवी ददावर्घ्यं स्वयं क्षुल्लकयोस्तयोः । रत्नपात्रघृतैर्दुर्वा दध्यक्षततरुद्भवैः ||२३|| तत्पादपतनं कृत्वा धराविन्यस्तमस्तका | ततो ऽपसृतचेतस्का मार्द्दवाढ्या जगाद सा ॥ १२४ ॥
१. क. ख. ग. घ. अद्भुतराज्यलोलुपैः ।
eve