________________
अष्टमः सर्गः
वंदे श्रीपार्श्वनाथं समस्तोपद्रवनाशनम् । कामघ्नं कामदं धीरं तत्पाश्र्वाय जगद्गुरुम् ॥१॥ अथान्य मातृजातायानुजाय निखिलां श्रियम् । यशोधनाय दत्त्वाशु विधिनाऽहं विरक्तधीः ॥२॥ . सुदत्ताचार्यपादान्तं दुःखदावाब्दसन्निभम्।.. दीक्षाय प्राप्तवान् राजभगिन्या सममेतया ॥३॥ विज्ञापितो मया योगी नत्वा तस्य क्रमांबुजम् । भगवन् दीयतां मे ऽस्या तपश्चाधवनानलम् ।।४।। मुनींद्रोऽथावदद्वाक्यं तरां तावद्युवां शिशू । गृह णीतं क्षोल्लकी दीक्षां वृहदीक्षाक्षमो यतः॥५॥ अनुल्लंघ्यां गुरोराज्ञां मत्वावां विधिनाशु ताम्। अग्रहीष्ट त्रिशुद्ध या स्वकर्महान्य सुखाकरम् ॥६॥ सम्यक्त्वं सद्वतं द्वादशधा सामायिकं तथा । प्रोषधः पर्वसु कृत्स्नसचित्त-परिवर्जनम् ॥७॥ , सर्वाहारं निशित्याज्यं ब्रह्मचर्य सुखार्णवम्। सरिंभोऽर्जनं द्रव्यादि-परिग्रहहापनम् ।।८।। आरंभानुमतित्याज्यं स्वोद्दिष्टाहारवर्जनम् । गृहीताः प्रतिमा एकादशावाभ्यामिमास्तदा ॥६॥ सिद्धान्तपठनोद्युक्ता नानातपःपरायणाः। गंधारिण्या गणिन्या माता जनन्यश्चरंति मे ॥१०॥ विश्वसत्वहितः सारकथागमनिरूपकैः । कुकथाकथने मूकैः सिद्धांतश्रवणोद्यतैः ॥११॥
... हि सर्वोपद्रव ।