Book Title: Yashodhar Charitam
Author(s): Bhagchandra Jain
Publisher: Sanmati Research Institute of Indology

Previous | Next

Page 142
________________ यशोधरबरित्रम् इत्युक्त्वा तो क्रमो राजा [प्राणमच्छुद्धचेतसा] । ततः स्वपादसंलग्नं तं प्रत्याहाऽऽदरान्मुनिः ॥६॥ नम्वस्माभिः कृता क्षांतिः सर्वत्रोत्तिष्ठ भूपते। यतः पूर्व श्रुतः किं न धमः श्रीजिनभाषितः ॥६॥ अहिंसामार्दवाद्याढ्यो यतीनां शांतिपूर्वकः। तृणहेमसुखाशमनिंदास्तुतिसमुद्भवः ।।६१॥ यद्यज्ञः कोपि सत्साधु कोपाच्छपति पापभाक् । आकर्षत्यत्र वा हंति यष्ट्याद्यैः प्रायुधेन वा ॥६२॥ तत्सर्व साधुना नूनं सोढव्यं स्वहितेच्छुना। कर्मक्षयाय कोपो न कार्यः प्राणात्यये क्वचित् ॥६३॥ श्रुत्वा नु तद्वचो राजा मित्रं प्रत्याह हृष्टधीः। तपस्तेजोऽकषायत्वमसंगत्वममूढता ॥६४॥ . ज्ञानित्वं समता वीर्य निर्ममत्वादयो गुणाः । मुनीनां जातरूपाणामनन्यविषया भुवि ॥६५॥ ततो वणिक्पतिः प्राह भवत्रस्ताशयं नृपम्। इति ज्ञानादिस्वल्पैः किं गुणभूपासि विस्मितः॥६६॥ स्वपितृणां गतीः काश्चिन्नत्वा पृच्छ त्वमादरात् । भूतं भावि भवद्विश्वं [ज्ञातारं] जगदोश्वरम् ॥६॥ . ततो मूर्दघ्ना मुनीशं तं नत्वा प्राक्षीन्मुदा नृपः।। पितामहः पिता माता क्वागान्मे चाम्बिका विभो ॥६॥ मुनिर्जगो नृपासीसे कोत्यौ घाख्यः पितामहः । दृष्ट्वकं पलितं सोऽईच्छासनेऽभून्मुनिः सुधीः ॥६॥ १. 4. ख. ग. प. ननाम शुद्धचेतसा । २. क. ख. ग. घ. जानानं। ३. ब. ग. चायिका।

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184