Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 15
________________ शास्त्रार्थकला परिष्कृतः अत्रैव प्रसङ्गात्कारणत्वं विचार्य्यते ननु कारणत्वञ्च अन्यथा सिद्धिशून्यत्वे सति नियतपूर्ववृत्तित्वमिति । अत्र लक्षणे अन्यथासिद्धित्वस्यानुगतरूपेण ज्ञानाऽभाव इति कथं लक्षणसिद्धिरिति चेन्न ? नियतपूर्ववर्त्तिवृत्तिदण्डत्वादिभेदकूटवत्त्वे सति घटनियतपूर्ववत्तित्वं घटकारणत्वम् | अनियतपूर्ववर्त्तिपटादिवारणाय विशेष्यदलम् । नच विशेषणकोटौ पटादिभिन्नत्वे सतीत्यस्य निवेशः ? गौरवात् । अत्र नियतपूर्ववर्तित्वञ्च कार्याऽव्यवहितप्राकूक्षणावच्छेदेन कार्यसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वम् । दण्डत्वादिवारणाय सत्यन्तनिवेशः । अत्र शुक्लाः ननु कार्यप्राक्क्षणे कार्याऽसत्वेन तदानीं कार्याधिकरणत्वस्य कथङ्कार सम्भवः १ कार्यकारणयोरेककालावच्छेदेनैकाधिकरणकारणज्ञानवृत्तित्वाऽभावात् यावत्कार्यज्ञानन्नास्ति तावत्कारणज्ञानन्न भवेत् यावच्च कारणज्ञानन्नास्ति तावत्कार्यज्ञानन्न भवेत् इतिपरस्परापेक्षत्वात् । न च कार्यकारणयोस्साक्षात्सम्बन्धाऽभावेऽपि परम्परासम्बन्धेन कथञ्चित्कार्याऽसच्वकालेऽपि कार्यवत्त्वाङ्गीकारेणैकाधिकरणवृत्ति वात्कारणत्वलक्षणं युक्तमेवेति वाच्यम् ? परम्परासम्बन्धेन कार्यवत्त्वमित्यत्रापि कारणत्वज्ञानमन्तरा सिद्धिर्न भवेत्, भक्षितेऽपि लशुने न शान्तो व्याधिरिति न्यायेन परम्परासम्ब न्धस्वीकारेपि कार्यकारणयोरैक्याऽभावेन लक्षणे महाप्रलयस्य दुर्वारत्वात् । किश उक्तकारणत्वलक्षणात् प्राकू एवं किञ्चिदस्तीत्यवगम्यते तदुत्पत्तिस्तु कुतो न ज्ञायते तदुत्पत्तिप्रयोजकत्वादिक किञ्चिद्विलक्षणमङ्गीकार्यं स्यात्तर्हि विलक्षणं कीदृशं विलक्षणे विलक्षणङ्कीदृशमित्यनवस्था दुर्वारैव स्यात् । वस्तुतस्तु कल्पितं कार्यकारणयोरधिकरणत्वमाश्रित्य लक्षणसंघटने कथञ्चिद्विवादराहित्यम् । ननु तद्विषयकशाब्दानुकूलशक्तिमत्त्वेन पदार्थज्ञाने पदानां कारणत्वे भाविभूतपदज्ञानाच्छाब्दबोधो न स्यात् तयोश्शाब्दबोधप्राक्कालावच्छेदेनावर्त्तमानत्वात् । कारणस्य च कार्याव्यवहितप्राक्क्षणसत्त्वस्योक्तत्वादिति चेन्न, केषांचिन्मते पदाना-ি स्वत्वात् । नच शाब्दधाराप्रसङ्गः, ज्ञानविषयतापन्नशक्तिमत्त्वेन पदानां हेतुत्वात् । नच पुरुषान्तरीयज्ञानदशायाम्पुरुषान्तरस्य शाब्दबोधापत्तिरिति वाच्यम् ? तत्तत्पुरुषीयत्वस्य तत्र तत्र निवेशेनाऽदोषात् । नच शब्दस्याकाशधर्मत्वाच्छाब्दबोधकारणत्वं कथमिति वाच्यम् १ कालिकविशेषणतया कार्यकारणभावाऽभ्युपगमेन कार्यकारणयोस्सामानाधिकरण्यसम्भवात् । तथा च शब्दाः प्रमाणमितिविवेकेन शब्दप्रमाणस्य गरीयस्त्वात् इति । समन्वयश्च नीलो घट इत्यादौ नीलादिपदजन्यनीलादित्वप्रकारकनीलादिनिष्ठविशेष्यताकशाब्दबोधे नीलादित्वप्रकारकनीलादिनिष्ठविशेष्यताकोपस्थितेस्सत्त्वात् । न च नीलो घट इत्यादिवाक्यजन्याऽभेदसंसर्गकनीलप्रकारकघटविशेष्य कशाब्दबोधे नीलप्रकारकोपस्थितेरभावाद्धेतोः कार्यतावच्छेदकानाक्रान्तत्वं स्यादिति वाच्यम् ? कार्यतावच्छेदककोटीयप्रकारांशे निरवच्छिन्नत्वनिवेशात् । नीलो निरच्छिन्नत्वञ्च -- पदशक्यसम्बन्धातिरिक्तयत्किचि निष्ठावच्छेदकतानिरूपितावच्छेद्यत्वाभावव

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 296