Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 14
________________ व्युत्पत्तिवादः यकप्रत्यक्षवाचमिम्प्रति शाब्दसामग्री प्रतिबन्धिकेति कार्यकारणभाव एकः, विभिन्नविषयकप्रत्यक्षत्वावच्छिन्नम्प्रति अनुमितिसामग्री प्रतिबन्धिकेति द्वितीयः. एवञ्च शाब्दबोधस्य प्रत्यक्षत्वस्वीकारे नीलो घट इति पीतो घट इति च शाब्दबोधसामग्रीसत्त्व इष्टोऽपि समूहालम्बन शाब्दबोधो न स्यात् । पीतपटात्मक विभिन्नविषयकशाब्दबोधरूपप्रत्यक्षत्वावच्छिन्नम्प्रति नीलघट विषयकशाब्दसामयाः प्रतिबन्धकत्वेम क्लसत्वात् । एवं विनिगमनाविरहेण नीलघटशाब्दात्मकप्रत्यक्षत्वावच्छिन्नम्प्रति पीतो घट इति शाब्दसामग्न्याः प्रतिबन्धकत्वाऽपत्तेश्व | अनयैव रीत्या पर्वती वह्निमान् महान वह्निमदिति समूहालम्बनात्मकानुमितावपि प्रतिबन्धकत्वापत्तौ समूहालम्बनत्वानुपपत्तिर्बोध्या । नच प्रतिबध्यतावच्छेदककोटौ शाब्दरहितत्वे सतीतिनिवेशोऽर्थात् शाब्दभिन्नविभिन्नविषयक प्रत्यक्षत्वमेव प्रतिबध्यतावच्छेदकमिति तथैवानुमितिरहितविभिन्नविषयक प्रत्यक्षत्वमेव प्रतिबध्यतावच्छेदकमिति कार्यकारणभावानुरोधेन नोक्तसमूहालम्बनद्वयानुपपत्तिरिति वाच्यम्, शाब्दबोधरहितत्वानुमितिरहितत्वनिवेशोऽपि सगौरवस्तत्र विशेष्यविशेषणभावे विनिगमना वैकल्येन वैप त्यानुसन्धाने गुरुधर्मावच्छिन्नानेकप्रतिबध्यतापतेश्च । यदि त्वनेकनिरुक्तकार्यकारणभावलाघवानुरोधेनैतद् गौरवन्न दोषावहमित्युच्यते तर्हि शाब्दत्वस्य प्रत्यक्षत्वोपगमे दोषोऽन्वेषणीयः । वस्तुतस्तु--"प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानी" तिसूत्रे चतुर्णाम्प्रमाणानां शाब्दबोधादीनाम्पार्थक्येनोपादानमेव ज्यायस्तर पार्थक्येनोपादानात्प्रमेयानामपि मित्यलम् । अत्र कुशाग्रबुद्धयस्तु - ननु गामानय गौरस्तीत्यादौ शाब्दबोधसिद्धये शब्दाः प्रमाणमानुभविक म्परन्तु तादृशवाक्ये मानस एव बोधस्स्वीकाय्र्य्योऽलशब्दस्य प्रमाणान्तरत्व स्वीकारेणेति चेन्न १ विषयतासम्बन्धेन प्रत्यक्षत्वावच्छिन्नम्प्रति तादात्म्यसम्बन्धेन विषयस्य हेतुत्वमितिनियमानुसारेण गोकर्मकत्वेनानयनं शृणोमि अस्तित्वेन गां शाब्दयामीत्याद्यनुभवान सर्वाऽभिमतत्वेनाऽसिद्ध्याऽपत्तेः । किञ्च गामानयेत्यादिवाक्यस्थले मानसबोधस्वीकारे प्रतिबन्धकाऽभावात्कारणान्तरेणोपस्थितानां घटदण्डादीनामुपस्थित्या कर्मत्वांशे मानापतेश्च । न चेष्टापत्तिरत्यन्ताऽनुभवविरोधात् । एवंविधांशे घटादिकर्मकत्वेनानयनं शृणोमीति विशिष्टानुभवस्यानुदयात् । न चानुमितिरेव साऽस्तु कथ शब्दप्रमाणस्वीकृतिरिति प्रश्ने प्रकारो द्रष्टव्यः । गौरस्तीतिवाक्यश्रवणानन्तरं " गौरस्ति तावती अस्तिपदसाकाङ्क्षपदस्मारितत्वात् चक्षुर्वत्" इतिविशेषानुमानात् । एवमन्यत्राऽपीति वाच्यम्, विनष्टचक्षुषि व्यभिचारसम्भवात् । पक्षे स्मृतिविषयत्वाऽज्ञानदशायामपि शाब्दमतेरनुभवसिद्धत्वाच्छाब्दम्प्रति पदजन्योपस्थितेरेव कारणत्वात्तद्विषयत्वज्ञानस्यानावश्यकत्वेन शाब्दस्यैव युक्तत्वात् इत्याहुः ।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 296