Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 12
________________ . व्युत्पत्तिवादः ननियामिका प्रतीतिरेव, तस्यास्सर्वसम्मताया अभावात् । मीमांसकमते दोषप्रकाराः, यत्र शक्तिभ्रमेण खण्डशः घटपदात् घटघटत्वयोर्विशेष्यविशेषणभावरहितयोरुपस्थितिस्तत्र तन्मते कार्यमस्ति हेतुर्नास्ति वृत्तिज्ञानाधीनोपस्थित्यभावात् । तथा च हेतोः कायतावच्छेदकानाक्रान्तत्वं स्यात् । किञ्च विनिगमनाविरहेण यथा घट इत्यादी घटत्व. प्रकारकघटविशेष्यकबोधस्तथा घटप्रकारकघटत्वविशेष्यकशाब्दबोधोऽपि तन्मते दुर्वार एव स्यात् । किञ्च शाब्दबोधे शक्तिशानं लक्षणाज्ञानञ्च तन्मतेऽपि कारणमिति तयोः कार्यकारणभाक्योः परस्परव्यभिचारवारणाय तत्पदनिष्ठशक्तिशानाधीनोपस्थित्यव्यवहितोत्तरजायमानतद्विषयकशाब्दबुद्धित्वावच्छिन्नम्प्रति तत्पदनिष्ठशक्तिज्ञानाधोनोपस्थितिः कारणम्, तत्पदनिष्ठत्वलक्षणाज्ञानाधीनोपस्थित्यव्यवहितोत्तरजायमानतद्विषयकशाब्दबुद्धित्वावच्छिन्नम्प्रति तत्पदनिष्टलक्षणाज्ञानाधीनोपस्थितिः कारणम् । तथाच तन्मतेऽपि संसर्गाशे कार्यकारणभावीयदलद्वयन गच्छतीति कथम्व्यभिचार इति न संसर्गविशिष्टे शक्तिः । तथाच घटप्रकारकघटत्वविशेष्यक इत्यादिपूर्वोक्तदोषवारणाय तत्पदजन्यतत्प्रकारकतद्विशेष्यकशाब्दबुद्धित्वावच्छिन्नम्प्रति तत्पदनिष्ठवृत्तिज्ञानाधीनतत्प्रकारकतद्विशेष्यकोपस्थितिः कारणमिति नैयायिकमतम् । एवञ्च घटप्रकारकघटत्वविशेष्यकोपस्थितेरभावादक्षतेः। अभेदादिसंसर्गस्य यत्किञ्चिनिष्ठप्रकास्तात्मकयत्किचिन्निष्ठविशेष्यतात्मकोपस्थितेरभावात्पदार्थबोधे चिकीर्षिते व्यभिचाराद्यभावान्न तन्मतञ्ज्यायस्तरमिति पदार्थद्वयसंसर्गभाननियामक किमिति स्वमतमाह शाब्दबोधे चंकेति । अस्माच्छब्दादयमों बोद्धव्य इत्यनुभवत्वसाक्षाद्वथाप्ये शाब्दत्वजात्याश्रयश्शाब्दबोध इति फलितम् । नच योगरूढित्वङ्कथमनुमितित्वव्याप्यशाब्दत्वजात्याश्रयश्शाब्दबोध इत्येवास्तु । नच "प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीतिशास्त्रे शब्दस्य पृथगुपादानेन स्वातन्त्र्यमेव शब्दार्थयोरिति वाच्यम् ? सिद्धान्ते समानविषयकशाब्दबोधम्प्रति प्रत्यक्षसामग्री प्रतिबन्धिकेत्येको नियमः, समानविषयकानुमितित्वावच्छिन्नम्प्रति प्रत्यक्षसामग्री प्रतिबन्धिकेति द्वितीयो नियमः, एकस्मिन्नेक पदार्थे शाब्दत्वमनुमितित्वञ्च पराऽपरत्वेन चिकीर्षितन्तत्र समानविषयकशाब्दबुद्धित्वावच्छिन्नम्प्रति अनुमितिसामग्री प्रतिबन्धिकेतितृतीयो नियमः । विनिगमनावैकल्येन समानविषयकानुमितित्वावच्छिन्नम्प्रति शाब्दसामग्री प्रतिबन्धिकेतिचतुर्थी नियम : परन्तु शाब्दत्वस्यानुमितित्वे त्वेकेनैव समानविषयकानुमितित्वावच्छिन्नम्प्रति प्रत्यक्षसामग्री प्रतिबन्धिकेति कार्यकारणभावेन निर्वा हे त्रयाणामकरणरूपलाधवानुसन्धानेन सूत्रविरोधेऽपि क्षतिविरहात् । नच विभिन्न विषयकप्रत्यक्षत्वावच्छिन्नम्प्रति शाब्दसामग्री प्रतिबन्धिकेतिनियमे शाब्दसामग्रीपदेनानुमितिकारणीभूतशान्दबोधकारणीभूतव्यातिपरामर्शपक्षतायोग्यताऽकाङ्क्षाऽऽसत्तितात्पर्याणां सर्वेषामेव सामग्रीत्वेन रूपेण ग्रहणे विशेष्यविशेषणभावे विनिगमनावैकल्येनानेकगौरवमतो नानुमितित्वव्याप्यत्वं शाब्दत्वस्येति वाच्यम् , तद्विषयकप्रवृत्तिम्प्रति तद्विषयकेष्टसाधनत्वप्रकारकज्ञा

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 296