Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
व्युत्पत्तिवादः इत्यण , शब्दप्रयोज्य इत्यर्थः । प्रयोज्यत्वमणप्रत्ययार्थो भाति, तादृशो बोधशाब्दबोधः । न च शब्दप्रत्यक्षे शब्दलिङ्गकानुमितौ च शब्दप्रयोज्यबोधसत्त्वाद् व्यभिचारापत्तिरिति वाच्यम् ? पङ्कजादिशब्दवत् योगरूढ्यभ्युपगमेनाक्षतेः। ननु शाब्दबोधे । चैकपदार्थेऽपरपदार्थस्येतिनियमस्य किमवतरणमितिप्रश्नः, न्यायमते प्रत्यक्षानुमानोपमानशब्दानामेव प्रामाण्यम्प्रसिद्धम् । तत्र प्रत्यक्षे संसर्गभासकस्सन्निकर्ष एव ! अनुमितौ संसर्गस्य भासकः परामर्शः। उपमिती शक्तिरूपसंसर्गभासकमतिदिष्टवाक्यार्थस्मरणम्, राजपुरुषः नीलो घटः नीलघटमानयेत्यादिवाक्यजन्यशाब्दबोधस्थले स्वत्वामेदादिसम्बन्धानाङ्कथम्प्रतीतिस्ताहशसम्बन्धनिष्ठा विषयता च किम्प्रयोज्या भवतीतिशिष्यजिज्ञासया चतुर्थशब्दप्रमाणविषयकतुरीयप्रकरणादौ पदार्थद्वयसंसर्गभासकत्वेनाकाङ्क्षासामान्य व्यवस्थापयन्प्रतिजानीते शाब्दबोधे चेति । तदुक्तं वैशेषिकैः "इ
सप्रसङ्ग उपोद्घातो हेतुताऽवसरस्तथा ।
निर्वाहकैक्यकार्यक्ये षोढा संगतिरिष्यते ।। यो यन्निरूपणानन्तरन्निरूपणीयस्स तन्निरूपितसंगतिमान् भवति । अत्रैव च तात्पर्यग्राहकोअवच्छेदकावच्छेदेन निरूपणम्प्रति अबछेदकावच्छेदेन संगतेरावश्यकत्वनियमः। अवसरसंगतित्वव जिशासानिवृत्तित्वम् । अत एव जिज्ञासानिवृत्तिरवसर इति श्रूयते ।
शाब्दबोधे चेत्यत्र त्वर्थक शब्देनैतदभिप्रेतम् , यथा अनुभितौ परामर्शीयविषयतायाः सांसर्गिकविषयताप्रयोजकत्वन्तथा शाब्दबोधे सांसर्गिकविषयतायाः प्रयोज्यता न सकेतशानोयविषयत्वस्य, किन्तु आकाङ्क्षाज्ञानस्यैवेति ।।
शाब्दबोधे इत्यत्र निरूपितत्वं सप्तम्यर्थः, तस्य च निरूपकतानिरूपितनिरूप्यतावस्वरूपत्वेताशनिरूपितत्वपदार्थकदेशनिरूपकतायां शाब्दबोधपदार्थस्य निष्ठत्वसम्बन्धेनान्वयो नान्यथा । आख्यातार्थकालकृत्योः स्वरूपसम्बन्धो वा क्वचित् ।
शाब्दबोधत्वञ्च-शब्दार्थबोधजनकत्वम् । जनकता च द्वेधा स्वरूपयोग्यताफलोपधायकताभेदात् । तत्र कारणतावच्छेदकीभूतधर्माश्रयत्वं स्वरूपयोग्यत्वम् , यथा घटकारणतावच्छेदकीभूतदण्डस्वधर्माश्रयत्वमरण्यस्थदण्डे । कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्याधिकरणवृत्तित्वम् फलोपधायकत्वम् , यथा घटजनयितरि कुलालोयदण्डे । अन्यथासिद्धभिन्नत्वनिवेश उभयत्र समः। शाब्दबोधे च आसत्तितात्पोकालाशानादेः कारणत्वम् । समासतस्तु---
पदशानन्तु करणद्वारन्तत्र पदार्थधीः ।
शाब्दबोधः फलन्तत्र शक्तिधीस्सहकारिणी ।। इति । योगरूढीति-चतुर्विधो हि शब्दः रूहः, योगरूहः, यौगिको योगिकरूढश्चेति । मण्डपपङ्कजपाचकोद्भिदादीनि क्रमश उदाहरणम् ।
प्रत्यक्षानुमानेति-तत्र प्रामाण्यवादे प्रत्यक्षमेव प्रमाणमिति चार्वाकाः। प्रत्यक्षमनुमानञ्चेति दे इति वैशेषिकाः । प्रत्यक्षानुमानागमा इति सारथाः । प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानाति अक्षपादानुयायिनो नैयायिकाः । अर्थापत्त्यनुपलबिबभेदात् षट प्रमाणानोति भावेदान्तिनौ। तत्रापि सम्मवै. तिभेदादष्टौ प्रमाणानीति पौराणिकाः। चेष्टया युतानि नव प्रमाणानीत्यालङ्कारिकाः। प्रमाजनक २ याच प्रमाणत्वम् । अत एव न्यायभाष्ये "प्रमीयतेऽऽनेनेति करणार्थाभिधानो हि प्रमाणशब्दः" इति।

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 296