Book Title: Vitrag Stotram
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 3
________________ ROSASARAMIRECRUCIROMC0 मुनिगणमुपकारकरणपटवः पूज्यपादाः सम्मील्याचार्यपञ्चशतीं वर्तमानागमरत्नरत्नाकरोपमां सौराष्ट्रराष्ट्रराजमानायां तत्त्वज्ञानश्रीवलभ्यां वलभ्या-15 मुद्भावयामासुः शासनं विशसितप्रबलकर्मबलकेतनं पुस्तकारूढं सिद्धान्ततया सर्वसम्मताविसंवादमतीयम्; तदारत एव चासंयममयासंयतसंसारपारावारवर्धनमपि संयमवर्धनतयोपकरोति पुस्तकवृन्दमर्हाणामहमहच्छासननभोङ्गणतारारूपाणां मुनिवराणाम् ; स्पष्टितं च स्पष्टमेतत्स्पष्टतमबोधकिरणैर्युगप्रधानप्रवरैः श्रीमत्तत्त्वार्थदीपनप्रदीप्रप्रदीपोषमतत्त्वार्थसार्वदिकसाधुकल्पकल्पनकल्पबृहत्कल्पप्रभृतिषु परमार्थपथप्रधानावधारणैरन्यथा तु नाभविष्यदेव सकलजन्तुजातासाधारणसातवितरणविज्ञपारमार्थिकतत्त्वप्रधानासाधारणाचरणावगमनज्योतिरन्तरा विवेकचक्षुरुद्घाटनमैदंयुगीनानां दुप्पमासमयोद्भूतानेकवाचालकुतीर्थिकवाचालितदिगन्तरालानुपलभ्यदिगवलोकानाम् , तदन्तरेण च कथङ्कारमभविष्यत्सदाचारसौ|धसोपानारोहोऽप्यारूढानार्यजनप्रबलासङ्गजातप्रबलानार्याचारप्रभावेऽत्र युगे धर्मजिघृक्षाप्यास्तां तावद्दूरादेवानवगतद्रव्यभावानुकम्पाप्रथनप्रत्यलधर्ममार्गकामस्नेहदृष्टिरागमदिरोन्मत्त विहितानेकदुर्गमविघ्नसरित्प्लवोत्तरणाधिगतशमसाम्राज्यसाधनसावधानसर्वसङ्गपरित्यागमहावताङ्गीकारादिवि धानं स्याद्भवेयुश्चारम्भपरिग्रहासक्तपबलमिथ्यात्वमोहमदिराविह्वलान्तःकरणाविरतिराक्षसीजग्धजीवस्वरूपरमणतासत्तत्त्वा एव मुनय इति शासहनोन्मूलनमित्यलम् प्रसक्तानुप्रसङ्गेन; विरचिताश्च वीतरागचरणसरोजकिञ्जल्कमधुकराभैः श्रीवस्तुपाल, कुमारपाल, साधुपेथडादि भिरनेके कोशा ज्ञानयुतिद्युतिकोशा इव भव्याजोद्बोधिनो वीतरागमतानूनमहिमासरिच्छ्रोतःप्रभवपृथ्वीधरायमानाः, परञ्च हुण्डाव| सर्पिणीपञ्चमाररजनीरजनीचरायमाणदुष्टम्लेच्छादिभूमिपैरज्ञानतत्यवष्टब्धहृदयैर्यत्याभासैः श्रावकामासैश्च, तत्त्वातत्त्वविवेचनविमुखताखीकृत पुस्तकद्रव्यविनाशिता ज्वालिताः, क्षिप्ता जलेऽतनुप्रवाहे, चिता भित्तौ, हीनाचारैर्नीताश्च हानिम् स्खीयानाचारोपद्रवरक्षणबद्धबुद्धिभिस्तथाच |शेषाः शेषीभूता एवोद्भावयन्ति शासनोद्भावनामसमप्रभावनाम्, तत्रापि निःस्सत्त्वाद्देशस्य, अतिहसीयस्त्वाद्धर्मबुद्धेः, परायणत्वान्मानगिर्यारोहे, भव्याजोद्बोधिनो वीतरागमतः श्रावकामासैश्च, तत्त्वातत्त्वावरणबद्धबुद्धिभिस्तथाच KASASSASSASSIC Jan Education For Private Personel Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 194