Book Title: Visesavasyakabhasya Part 1
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 244
________________ वरणप्रशंसा । २२१ क्रियाशून्यस्यापि सम्भवा[ त् ] ज्ञानमात्रग्राहनिपेधो युक्तः, ज्ञानशून्यक्रियाऽभावात् सक्रियामात्रग्राहनिपेधोऽनर्थकः । इह च विशिष्टासंयमतपोमयी क्रियाऽधिक्रियते । न चासावज्ञानतः सम्भवति । यतोऽभिहितं- ज्ञानी संयतोऽसंयतो वा स्यात् , संयतस्तु नियमत एव ज्ञानीति । शुद्धनयाभिप्रायोऽपि चायमेव यत्संयम एव निर्वाणसाधनमिति, यतो न ज्ञानशून्यः संयमो नामेति । उत सामान्यक्रियाऽधिक्रियते तथापि तन्निपेधोऽनर्थको यतो न सामान्यक्रिया केनचिदपवर्गप्रसाधनतयाऽभ्युपगम्यते, मिथ्या क्रियापि वा[s]क्रियैव मिथ्याज्ञानाज्ञानवत् । उच्यते--अत एवापदिश्यते-हता वाऽज्ञानतः क्रिया। हतेत्यक्रियैवासावफलत्वादज्ञानत इति, अज्ञानपरिग्रहान्निवादिक्रियावत् । सम्यग्दृष्टेरपि च ज्ञानोपयोगशून्यस्य क्रियैव द्रव्यमात्रत्वात् ॥११५८।। अतिसंकडंपुरडाहम्मि अंधपरिधावणातिकिरिय व्य । तेणण्णोण्णावेक्खा साधणमिह णाणकिरियाओ ॥११५९॥ अति० गाहा । हतेह मिथ्यादृष्टिनिह्नवादिक्रिया । कुतः ? अज्ञानाधिष्ठानात्पुरदाहे अन्धपुरधावनादिक्रियावत् । तेनेह ज्ञानं क्रिया चोभयमपि साधनमन्योन्यापेक्षमिष्टम् ॥११५९॥ पत्तेयमभावातो णेबाणं समुदितासु वि ण जुत्तं । णाणकिरियासु वोत्तुं सिकतासमुदायतेल्लं व ॥११६०॥ पत्ते० गाहा । आह-ज्ञानक्रिययोः प्रत्येकमसाधनत्वात् समुदितयोरपि साधनाभावः, सिकतातैलवत् । उच्चते-न, प्रत्यक्षविरुद्धत्वात् । इह ज्ञानक्रियाभ्यां घटादिकार्यसंसिद्धयः साक्षादुपलभ्यन्ते तथाऽदृष्टकार्यसंसिद्धिरप्यनुमीयते ॥११६०॥ वीसुण्ण सव्वध चिय सिकतातेल्लं व साहणाभावो । देसोबंगारिता जा सा समवायम्मि संपुण्णा ॥११६१॥ वीसु० गाहा । न च पृथक् सर्वथैवानयोः साधनाभावः, सिकतातैलवत् । किं तर्हि ? या च यावती च देशोपकारिताभ्युपगम्यते सैव तु समुदाये यसी भवती यतोऽभिहितम् ॥११६१॥ संजोअसिद्धीएं फलं वतंति, ण हु एगचक्केण रथो पयाति । अंधो य पंगू अ वणे समेच्चा,ते संपउत्ता णगरं पविट्ठा ॥१०२॥११६२॥ दुगसंजोगम्मि फलं सम्म किरिओवलद्धिभावातो। इट्ठपुरागमणं पिव संजोए अंधपंगणं ॥११६३।। १° दाह को है त। २ तेणगण्णा त । ३ देसोवतार जे । ४ द्धीइ को है। ५ सम्मकि हे। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306