Book Title: Visesavasyakabhasya Part 1
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 299
________________ विशेषावश्यकभाष्ये निद्दि० गाहा । आह-यदि वक्तुर्वचनम्, अनुग्रहोपघातदर्शनात्; ननु वचनीयस्यापि कस्यचिदिष्टानिष्टवचनश्रवणादनुग्रहोपघातदेर्शनम् । यथा वा 'ब (व)ध्यतामयम्' इत्युक्तेऽन्यवचनप्रत्ययो वधः, पूजाकर्म वा कस्यचिदित्यतोऽनुग्रहोपघातदर्शनात् तत् तस्येति युक्तम्, उच्यते तावनुग्रहोपघातावस्य स्वकरणेभ्यः श्रोत्रादिभ्यः, अन्यथा हि स्थाणोरपि स्याताम् । अतो वक्तृपर्याय एव हि वचनम् ॥१५१६ ॥ ૨૦૬ सरणामोदयजणितं त्रयणं देहो व्य वतुपज्जायो । तं णाभिधेयधम्मो जुत्तमभावाभिघाणातो || १५१७॥ सर० गाहा । इतश्च - वक्तृपर्यायो वचनम्, तत्कर्मोदयनिमित्तत्वात् शरीरवत् । यतः स्वनामकर्मोदये निमित्तं वचनम्, अतो नाभिधेयधर्मः । अभावाभिधानान्च • भावपर्यायप्रसङ्गः ॥ १५१७॥ भावम्मि विसंबद्धं तमसंबद्धं व तं पनासेज्जा | जति संबद्धं तिभुवणाविति तयं पगासेतु ॥ १५१८॥ भाव० गाहा । भावमपि हि सम्बध्या सम्बध्य वा प्रकाशयेत् ? यदि संबध्य प्रकाशयति समस्तभुवनत्र्यापित्वात् तत्प्रकाशकमस्तु ॥ १५९८ ॥ णित्रिष्णाणतणतो णासंबद्धं तयं पदीवो व्व । भासयति असंबद्धं अथ तो सव्वं पगासेतु || १५१९॥ णिन्त्रि० गाहा । न चाऽसम्बध्य तेऽपि प्रकाशयति निविज्ञानत्वात्, प्रदीपबत् । अथाऽसम्बध्यापि प्रकाशयति असम्बन्धमात्र सामान्यात् सर्वप्रकाशकमस्तु ॥ १५१९॥ जति वि वयणिज्ज-वत्ता वज्झब्भन्तरणिमित्तसामण्णं । वत्ता तथ विपधाणो णिमित्तमभंतरं जं सो ॥। १५२० || दारं ॥ जति वि० गाहा । आह - ननूक्तं वचनमर्थादेवात्मलाभ लभते प्रदीपवत् । अतः कथमभिधातुरेव, नाभिधेयस्य : उच्यते यद्यपि वक्तृवचनीयान्तर्वहिर्निमित्तसामान्यमस्य, तथापि हि वक्तुरेव प्राधान्यमन्तर्निमित्तत्वात् विज्ञानप्रत्ययवत् । यथा विज्ञानस्यान्तर्बहिर्निमित्तसामान्ये सत्यात्मन एवानन्यत्वात्, कर्तृत्वविशेषाच्च स्वातन्त्र्यं गम्यते, न रूपादीनाम्, तद्वद्वचनस्यान्तर्वहिर्निमित्तसामान्ये वक्तुरिति ॥ १५२० ॥ १ घाद - इति प्रतौ । २ वत्थुप त । 'ज्जाया जे । ४ 'तरी जे । ५ नाम्नाभिइति प्रतौ । ६ स्यान्तर्वर्तिनि - इति प्रतौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306