________________
वरणप्रशंसा ।
२२१
क्रियाशून्यस्यापि सम्भवा[ त् ] ज्ञानमात्रग्राहनिपेधो युक्तः, ज्ञानशून्यक्रियाऽभावात् सक्रियामात्रग्राहनिपेधोऽनर्थकः । इह च विशिष्टासंयमतपोमयी क्रियाऽधिक्रियते । न चासावज्ञानतः सम्भवति । यतोऽभिहितं- ज्ञानी संयतोऽसंयतो वा स्यात् , संयतस्तु नियमत एव ज्ञानीति । शुद्धनयाभिप्रायोऽपि चायमेव यत्संयम एव निर्वाणसाधनमिति, यतो न ज्ञानशून्यः संयमो नामेति । उत सामान्यक्रियाऽधिक्रियते तथापि तन्निपेधोऽनर्थको यतो न सामान्यक्रिया केनचिदपवर्गप्रसाधनतयाऽभ्युपगम्यते, मिथ्या क्रियापि वा[s]क्रियैव मिथ्याज्ञानाज्ञानवत् । उच्यते--अत एवापदिश्यते-हता वाऽज्ञानतः क्रिया। हतेत्यक्रियैवासावफलत्वादज्ञानत इति, अज्ञानपरिग्रहान्निवादिक्रियावत् । सम्यग्दृष्टेरपि च ज्ञानोपयोगशून्यस्य क्रियैव द्रव्यमात्रत्वात् ॥११५८।।
अतिसंकडंपुरडाहम्मि अंधपरिधावणातिकिरिय व्य । तेणण्णोण्णावेक्खा साधणमिह णाणकिरियाओ ॥११५९॥
अति० गाहा । हतेह मिथ्यादृष्टिनिह्नवादिक्रिया । कुतः ? अज्ञानाधिष्ठानात्पुरदाहे अन्धपुरधावनादिक्रियावत् । तेनेह ज्ञानं क्रिया चोभयमपि साधनमन्योन्यापेक्षमिष्टम् ॥११५९॥
पत्तेयमभावातो णेबाणं समुदितासु वि ण जुत्तं ।
णाणकिरियासु वोत्तुं सिकतासमुदायतेल्लं व ॥११६०॥
पत्ते० गाहा । आह-ज्ञानक्रिययोः प्रत्येकमसाधनत्वात् समुदितयोरपि साधनाभावः, सिकतातैलवत् । उच्चते-न, प्रत्यक्षविरुद्धत्वात् । इह ज्ञानक्रियाभ्यां घटादिकार्यसंसिद्धयः साक्षादुपलभ्यन्ते तथाऽदृष्टकार्यसंसिद्धिरप्यनुमीयते ॥११६०॥
वीसुण्ण सव्वध चिय सिकतातेल्लं व साहणाभावो ।
देसोबंगारिता जा सा समवायम्मि संपुण्णा ॥११६१॥
वीसु० गाहा । न च पृथक् सर्वथैवानयोः साधनाभावः, सिकतातैलवत् । किं तर्हि ? या च यावती च देशोपकारिताभ्युपगम्यते सैव तु समुदाये यसी भवती यतोऽभिहितम् ॥११६१॥ संजोअसिद्धीएं फलं वतंति, ण हु एगचक्केण रथो पयाति । अंधो य पंगू अ वणे समेच्चा,ते संपउत्ता णगरं पविट्ठा ॥१०२॥११६२॥
दुगसंजोगम्मि फलं सम्म किरिओवलद्धिभावातो।
इट्ठपुरागमणं पिव संजोए अंधपंगणं ॥११६३।। १° दाह को है त। २ तेणगण्णा त । ३ देसोवतार जे । ४ द्धीइ को है। ५ सम्मकि हे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org