________________
२२०
विशेषावश्यकभाष्ये ण हि णाणं विफलं चिय किलेसफलदं पि चरणरहितस्स । णिप्फलपरिवहणातो चंदणभारो खरस्सेव ॥११५४॥
ण हि गाहा । न हि ज्ञानान(ज्ञानमि)ष्टफलविकलमेव केवलं सत्क्रियाशून्यस्य, किन्तु क्लेशफलदमपि, निफलोद्वहनात् खरस्य चन्दनभारोद्वहनवत् ॥११५४॥ जधा खरो चंदणभारवाही, भारस्स भागी ण हु चन्दणस्स। एवं खु गाणी चरणेण हीणो, णाणस्स भागी ण हु सोग्गतीए॥१०॥११५५॥
. जधा वृत्तम् । यथेह खरश्चन्दनभारमुहंस्तच्छूमफलमागेव, न चन्दनविलेपनादिफलभाक्, तद्वदज्ञानी श्रुतज्ञानग्रन्थभारमुहंस्तच्छूमफलभागेव सत्क्रियाविकलः, न सुगतिफलभाक् । आह-न(ननु !) खरश्चन्दनभारस्योदो(द्वो)ढा चन्दनगन्धाघ्राणफलमनुभवति, कदाचिच्चन्दनविनियोगजं योग्यासनाद्यपि लभते, न सर्वथो(था) चन्दनभारोबहनफलम् । उच्यते-तदप्यस्य चन्दनगन्धात्राणफलं तद(द)गन्धोपादानक्रियानिमित्तमेव । न ह्यनाजिप्रतश्चन्दनगन्धात्राणफलमश्नुते । योग्यासनमपि सुवोढाऽयं वैहिष्यते वेति वहनि(न)क्रिया निमित्तमेव लभते, नावहनतच्चा(श्चा)न्यदपि वहन लभत एव न चन्दनमेवेति । विशिष्टं तु विलेपनादिफलमङ्गीकृत्येदमुच्यते । तच्च न लभतेऽनर्हत्वात् । तदपि चान्यक्रियानिमित्तकमेव । न च ज्ञानिनो वोधगन्धफलं न प्रतिपाठ्यन्ते न च ज्ञानविनियोगजं हिताहितग्राप्तिपरिहारपरिस्पन्दतः । तदेव तु क्रियाविकलस्य न सम्भवतीति खरोदाहरणमुक्तम् ।।११५५॥
हतं गाणं कियाहीणं, हता अण्णाणतो किया । पासंतो, पंगुलो हुँइहो, [७५-द्वि धावमाणो य अंधयो ॥१०१॥११५६॥ हतं सिलोगो ॥११५६॥ हतमिह णाणं किरियाहीणं ति जतो हतं ति जं विफलं ।
लोअणविण्णाणं पिव पंगुस्स महाणगरडाहे ॥११५७।।
हत० गाहा । हतमिति ज्ञानं, हतमिति फलमाह । क्रियाहीनमिति हतय(मि)ति सक्रियाहीनत्वात् महापुरदाहे पंगुलो लोचनविज्ञानवत् ॥११५७॥
'काहिति णाणच्चायं किरियाए चेव मोक्खमिच्छंतो ।
मा सीसो तो भण्णति हता य अण्णाणतो किरिया ॥११५८॥
काहिति गाहा । इदानी क्रियाप्रधानभावमुपश्रुत्य शिष्यः क्रियामात्रादेव मोक्षमिच्छन् ज्ञानत्यागमेव मा कादित्युच्यते-हता वाऽज्ञानतः क्रिया। आह-ज्ञानस्य १ ण तु जे । न उ है। २ मुचोहाय-इति प्रती । ३ वक्ष्यते-इति प्रतो । ४दड्ढो को हे त । ५°दाहे को हे त । ६ काहिइ को हे । काही त।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org