Book Title: Visesavasyakabhasya Part 1
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
उपशमश्रेणिविचारः ।
२४५ मझिल्लकसायाणं [८४-प्र०] कोधातिसमाणजातिए दो दो। , एक्केकेणंतरिते संजलणेणं उवसमेति ॥१२८६।।
मज्झिल्ल० गाहा । अप्रत्याख्यानप्रत्याख्यानावरणा मध्यमकपायाः । तेषां द्वौ द्वौ समानजातीयौ एकतः शमयति, ततः संचलनम् । तद्यथा अप्रत्याख्या[नप्रत्याख्यानावरणौ क्रोधावेकतः, ततः संज्वलनं क्रोधं ततोऽप्रत्याख्यान-प्रत्याख्यानावरणौ मानावेकतः, ततः संज्वलनं मानम् , एवं मायाद्वयमेकतः, ततः संज्वलनम्: ततो लोभद्रयमेकतः, ततः संज्वलनं लोभम्, एषां चोपशा(श)मकालोन्तर्मुहूर्तमुक्तः । समस्तश्रेणिकालोऽप्यन्तर्मुहर्तमेवेति ॥१२८६॥ संजलणादीण समो जुत्तो संजोयणादयो जे' तु । ते पुव्वं चिय समिता णणु सम्मत्तातिलाभम्मि ॥१२८७॥
संजलणा० गाहा। आह-यतः(अत्र ?)सञ्ज्वलन-हास्यादीनामुपशमो युक्तः, प्रागुदयसद्भावात्, संयोजनादिकपायाणां तु सम्यक्त्यादौ (दि)लाभकाल एव शमितत्वादयुक्तः ॥१२८७॥
आसि खयोवसमो सिं समोऽधुणा भणति को विसेसो सि । णणु खीणम्मि उदिण्णे सेसोवसमे खयोवसमो ॥१२८८॥
आसि गाहा । उच्यते-सम्यक्त्वादिलाभकाले हि क्षयोपशमोऽभिहितः, अधुनोपशमो वर्ण्यते । आह-को वाऽनयोः क्षयोपशमोपशमयोर्विशेषः ? उच्यतेननूदीर्णस्य [क्षयः, अनुदीर्णस्य] चोपशमः क्षयोपशमः ॥१२८८॥
सो च्चेवं गणवसमो उदिते खीणम्मि सेसए समिते । सुहुमोदयता मीसे ण तूबसमिए विसेसोऽयं ॥१२८९॥ ___ सो च्चेव गाहा । आह-ननु स एवोपशमोऽपि, यत्रोदितमुपक्षीणमनुदितं चोपशान्तमिति। उच्यते-क्षयोपशमे ह्युदयोऽप्यस्ति, न त्वसावतिविधाताय, उपशमे तु नोदयः, अयं विशेषः ।।१२८९॥
वेतेति संतकम्मं खयोवसमिएसु णाणुभावं सो ।
उवसंतकसायो पुण वेतेति ण संतकम्मं पि ॥१२९०।। १ जो त । २ चेय को है । ३ से को है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306