Book Title: Vicharratnakar
Author(s): Kirtivijay, Chandanbalashree
Publisher: Bhadrankar Prakashan
View full book text
________________
श्रीविचाररत्नाकरस्योपोद्घातः ।
ए नमः । पारमेश्वर्यप्रवचने महर्षिभिः श्रुतसागरादनेके ग्रन्थरत्नाः समुद्धृताः सन्ति । तत्रायमप्येकोऽतिगहनो विपुलतरङ्गलोलश्च नानाविधविषयविचाररत्नपरिपूर्णो विचाररत्नाकराभिधानश्चिराज्जयति । अस्य ग्रन्थस्य के विधातार: कदा च संजाताः इति जिज्ञासायाक ब्बासू पतिप्रतिबोधक्श्रीमद्विजयहीरसूरीश्वपादैन कोऽप्यज्ञो भविष्यति, तेषां शिष्यरत्नैः सुगृहीतनामधेयैर्महामहोपाध्याय श्रीमकीर्तिविजयगणिभिनिर्मितोऽयं ग्रन्थः । तेषां समयस्तु सुप्रसिद्ध एव । ग्रन्थरचना तु, श्रीमद्विजयहीरसूरीश्वसट्टप्रभावक्श्रीमद्विजयसेनसूरीश्वसट्टालङ्कानीमद्विजयतिलकसूरीन्द्रपट्टप्रतिष्ठि.श्रीमद्विजयानन्दसूशिखराणां साम्राज्ये नवत्यधिकषोडशशताब्दे समभवत्, तेषामे व सूरीश्वराणामादेशादयं ग्रन्थः श्रुतसागारात् समुद्धतः । उपाध्यायदेवविजयगणिभिःसंशो धितो लोकप्रकाशाद्यनेकग्रन्थनिर्मातृप्रस्तुतग्रन्थकृच्छिष्यरत्नवाचकवविनयविजयाणिभिश्च संशोधितः प्रथमादर्शः लिखितश्च । तदुक्तम्
तदनुमनुजमान्योऽनन्यसामान्यभाग्यस्त्रिभुवनगुरुपट्टे सूरिशक्रो बभूव । विजविजयसेन: फेनपिण्डावदातः, प्रसृमरवरकीतिर्मूतिमान् पुण्यराशिः ॥१८।। येनात्युन्मदवादिवृन्दहृदयक्ष्मापीठजन्मा महान्, गर्वक्षोणिरुहः क्षणादपि तथा निर्मूलमुन्मूलितः । * पाकब्बसंसदि स्ववचनैर्युक्तिप्रथापेशलैद्यिद्वन्धुरसिन्धुरोद्धरकरैरम्भोजमाला यथा ॥१९॥ तत्पट्टाभ्रमुकान्तसुन्दरशिरःशृङ्गारवास्तोष्पतिः, षट्तर्कोदधिमन्दरः स्मरजयी चारित्रचूडामणिः । चञ्चच्चन्द्रकुलाब्धिचन्द्रसदृशश्चन्द्रोज्ज्वलस्रीयशाः, स श्रीमान् विजयप्रयुक्ततिलकः सूरीश्वरः सोऽभवत् ॥२०॥ यः श्रीसूरिवर: समत्वमदधद् भ्राजिष्णुना जिष्णुना, लक्ष्मीदक्षकटाक्षपात्रमतनुप्रद्युम्नसम्पादकः । दधे येन जिनाधिराजवचनश्रेणीधरित्री ध्रुवम्, दन्धिोरगघोरसागरजलैराप्लाव्यमाना बलात् ॥२१॥ तत्पट्टाधिपतिः क्षितीशततिभिः स्तुत्यक्रमाम्भोरुहः, सूरिश्रेणिशिरोमणिः स विज्यानन्दः क्षमाभृद्विभुः ।

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 452