Book Title: Vicharratnakar
Author(s): Kirtivijay, Chandanbalashree
Publisher: Bhadrankar Prakashan
View full book text
________________
१२
स्वच्छश्रीस्तपगच्छराज्यमखिलं शास्ति प्रशस्ताभिधस्तीर्थाधीशपदारविन्दविलसद्भक्तिविमुक्तिप्रियः ॥२२॥ आजन्माऽपि रजःप्रसङ्गरहिते रत्नप्रदीपोज्ज्वले, विश्वामोदिसुवासने श्रुतधने चातुर्यचन्द्रोदये । यच्चेतःसदने निरस्तमदने स्वाध्यायदौवारिके, श्रीधर्मः क्षितिपः क्षमादिगृहिणीवर्गः सह क्रीडति ॥२३॥ यत्कीर्त्याद्भुतमेतदद्य विहितं शुभ्रं सृजन्त्या जगत्, कृष्णश्चेतरुचिः श्रितः श्रियमियं प्रोवाच शङ्काकुला । कस्त्वं तद्दयितो न सोऽसिततनुर्नूनं स एव प्रिये, दम्पत्योरितरेतरं सशपथं क्लुप्तः कलि कशः ॥२४॥ कण्ठे सारस्वती हृदि कृपानीतिक्षमाशुद्धयो, वक्त्राब्जे मुखवस्त्रिका सुभगता काये करे पुस्तिका । भूपालप्रणतिः पदे दिशि दिशि श्लाघाऽभितः सम्पदः, इत्थं भूरिवधूवृतोऽपि विदितो यो ब्रह्मचारीश्वरः ॥२५।। लक्ष्मीमीश्वरतां च यः परिचितामुत्सृज्य बाल्यादपि, श्रामण्यं श्रितवानगण्यगुणभृत्पुण्यप्रवीणाशयः । तत्रौज्झन्नपरान्तिकं तदितरा त्वक्ष्णापि नाङ्गीकृताऽप्येतत्पादपवित्रगेहिसदने तिष्ठत्यहो रागिता ॥२६।। शीलं यस्य परे स्तुवन्ति मतिनोऽप्यन्तर्मनोऽभीष्टदं, कालेऽस्मिन्नपि जाग्रदुग्रमहिमा यद्गोत्रमन्त्रोद्भुतः । नि:शेषागमवारिधेरपि सुखं दत्तावकाशे हृदि, स्थातुं न प्रभुरङ्गजश्चिरमिदं यस्य त्रयं चित्रकृत् ॥२७।। एतेषामादेशात् समुच्चितः प्रवचनादयं ग्रन्थः । श्राहीरविजयाणपतिशिशुपाठक्कीर्तिविजय ।।२८।। संशोधितश्च सुविहितचूडामणिामविजका धशिष्यैः । श्रावविजयाचकवृषभैः कोविदकुलोतंसैः ॥२९।। किञ्चात्र लेखनशोधनविषये यत्नं चकार मच्छिष्यः ।
विनयविजयभिधानः प्रथमादर्शं च स लिलेख ॥३०॥ अस्मिन् विचाररत्नाकरे आचाराङ्गोकादशाङ्गात्मकविचारतरङ्गसंकुलोऽपूर्वः पूर्वतटो
ratan-t.pm5 2nd proof

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 452