Book Title: Vicharratnakar
Author(s): Kirtivijay, Chandanbalashree
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 13
________________ वर्तते । औपपातिकदिद्वादशो पाङ्गान्द्यनुयोगद्वारूपशास्त्रविचारवीचिबहुलः कतिपयसूत्रमतान्तरावर्त्तयुत आवश्यकदशवैकालिकोत्तराध्ययनौघनिर्युक्त्यासूित्रसन्दर्भरूपकलिकाकलितश्चालब्धमध्यो मध्यभागो वर्तते । निशीथमहानिशीथदशाश्रुतस्कन्धबृहत्कल्पव्यवहारपञ्चकल्पामकच्छेदसूत्रानामाशयस्फटिकस्फीतोऽपश्चिमपश्चिमतटो वर्तते । किं बहुना प्रकीर्णकप्रकरणादिविचारात्मजलतरङ्गध्वनितो यथाऽयं दर्शनेन नेत्रमधुरो निदर्शनेन मनोवेधकस्तथा श्रवणेनापि निरन्तरं कर्णपेशलसंगीतदायको वेलावारिधिः श्रुतरत्नाकरैकोपासनारसिकत्वेनेतस्ततो भ्राम्यमाणानां वेलार्थिनां परमार्थपूरकः केवलनिधानसंवाहको भविष्यतीत्यत्र नास्ति संशयलेशोऽपिा अस्मिन्ग्रन्थे-"गणस्तव कोटिक: स्थानीयं कुलं वैराख्या शाखा, अमुकाभिधान आचार्य उपाध्यायश्च । साध्व्याः प्रवर्तिनी तृतीयोद्देशष्टव्या" इत्येवं रूपदिगबन्ध उक्तः, न प्रवर्तकाभिधानं नापि श्रावक श्राविकयोरिति । तथा-"अजातश्मश्रुणः शिष्यादेराचारप्रकल्पाध्ययनं पाठयितुं न कल्पते" । "यो वस्त्रस्यैकं थिग्गलं ददाति ददतं वा स्वादयतिअनुमोदयति तस्य दोषाः' इत्युत्सर्गः, कारणे तु त्रयाणामनुज्ञा परतः प्रायश्चित्तम् । एवं पाटितवस्त्रस्य ग्रन्थिदानेऽपि वक्तव्यम् । "द्वौ कल्पौ सौत्रिको एक और्णिको ग्राह्यः, वर्षाकालं विना औणिक एकको न व्यापार्यो मध्ये सौत्रिको बहिरौणिक इति विधिपरिभोगः" । "जघन्यतोऽप्यधीताचारप्रकल्पस्यैव निश्रया विहर्त्तव्यम्" । आचारप्रकल्पस्य निशीथज्ञस्य निश्रया विहर्त्तव्यं मुनिभिरित्यर्थः । “साधुनामुपकरणादिकं गृहस्थैः वाहयितुं न कल्पते" । "साधूनां प्रातिहारिकव्यापारणमनुचितं बहुदोषत्वात्" । "साधूनां गृहस्थगृहे गतानामुपवेष्टुं न कल्पते निषिद्धत्वात" । अन्तकाले येन श्रावकेण संस्तारकवर्जं सर्वं प्रत्याख्यातं तस्य दीक्षाग्रहणे न कापि क्षतिः । तदुक्तं "अह जइ सुसावगो कोई ॥२॥ संथारगपवज्जं पडिवज्जइ तस्स जिणगिहाईसु । पव्वज्जाविहि सव्वो कायव्वो नेव उवट्ठावणा" ॥३॥ दन्तधावनपुरस्सरं देवार्चनं कर्तव्यमुपवासपौरुष्यादिप्रत्याख्यानिनस्तु दन्तधावनादिकं विनापि शुद्धिरेव तपसो महाफलत्वात् । “स्वगृहचैत्यढौकितचोक्षपूगीफलनैवेद्यादिविक्रियोत्थं पुष्पभोगादि स्वगृहचैत्ये न व्यापार्यम्, नापि चैत्ये स्वयमारोप्यम्, किन्तु सम्यक्स्वरूपमुक्त्वाऽर्चकादेः पार्वात् तद्योगाभावे सर्वेषां स्फुटं स्वरूपमुक्त्वा स्वयमारोपयेत्, अन्यथा मुधाजनप्रशंसादिदोषः" । "देवगृहागतं नैवेद्याक्षतादिस्ववस्तुवत् सम्यग् रक्षणीयं सम्यग्मूल्यादियुक्त्या च विक्रेयं न तु यथा तथा मोच्यम्, देवद्रव्यविशादिदोषापत्तेः" । "एवं देवद्रव्यवत् ज्ञानद्रव्यमपि श्रावकाणामकल्प्यम् । साधारणद्रव्यमपि सङ्घदत्तमेव व्यापारयितुं कल्प्यते नान्यथा, सङ्घनापि सप्तक्षेत्रीकार्ये एव व्यापार्यम्, न मार्गणादिभ्यो देयम्" । तथा ज्ञानसत्कं कद्गलादिकं ratan-t.pm5 2nd proof

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 452