________________
वर्तते । औपपातिकदिद्वादशो पाङ्गान्द्यनुयोगद्वारूपशास्त्रविचारवीचिबहुलः कतिपयसूत्रमतान्तरावर्त्तयुत आवश्यकदशवैकालिकोत्तराध्ययनौघनिर्युक्त्यासूित्रसन्दर्भरूपकलिकाकलितश्चालब्धमध्यो मध्यभागो वर्तते । निशीथमहानिशीथदशाश्रुतस्कन्धबृहत्कल्पव्यवहारपञ्चकल्पामकच्छेदसूत्रानामाशयस्फटिकस्फीतोऽपश्चिमपश्चिमतटो वर्तते । किं बहुना प्रकीर्णकप्रकरणादिविचारात्मजलतरङ्गध्वनितो यथाऽयं दर्शनेन नेत्रमधुरो निदर्शनेन मनोवेधकस्तथा श्रवणेनापि निरन्तरं कर्णपेशलसंगीतदायको वेलावारिधिः श्रुतरत्नाकरैकोपासनारसिकत्वेनेतस्ततो भ्राम्यमाणानां वेलार्थिनां परमार्थपूरकः केवलनिधानसंवाहको भविष्यतीत्यत्र नास्ति संशयलेशोऽपिा अस्मिन्ग्रन्थे-"गणस्तव कोटिक: स्थानीयं कुलं वैराख्या शाखा, अमुकाभिधान आचार्य उपाध्यायश्च । साध्व्याः प्रवर्तिनी तृतीयोद्देशष्टव्या" इत्येवं रूपदिगबन्ध उक्तः, न प्रवर्तकाभिधानं नापि श्रावक श्राविकयोरिति । तथा-"अजातश्मश्रुणः शिष्यादेराचारप्रकल्पाध्ययनं पाठयितुं न कल्पते" । "यो वस्त्रस्यैकं थिग्गलं ददाति ददतं वा स्वादयतिअनुमोदयति तस्य दोषाः' इत्युत्सर्गः, कारणे तु त्रयाणामनुज्ञा परतः प्रायश्चित्तम् । एवं पाटितवस्त्रस्य ग्रन्थिदानेऽपि वक्तव्यम् । "द्वौ कल्पौ सौत्रिको एक और्णिको ग्राह्यः, वर्षाकालं विना औणिक एकको न व्यापार्यो मध्ये सौत्रिको बहिरौणिक इति विधिपरिभोगः" । "जघन्यतोऽप्यधीताचारप्रकल्पस्यैव निश्रया विहर्त्तव्यम्" । आचारप्रकल्पस्य निशीथज्ञस्य निश्रया विहर्त्तव्यं मुनिभिरित्यर्थः । “साधुनामुपकरणादिकं गृहस्थैः वाहयितुं न कल्पते" । "साधूनां प्रातिहारिकव्यापारणमनुचितं बहुदोषत्वात्" । "साधूनां गृहस्थगृहे गतानामुपवेष्टुं न कल्पते निषिद्धत्वात" । अन्तकाले येन श्रावकेण संस्तारकवर्जं सर्वं प्रत्याख्यातं तस्य दीक्षाग्रहणे न कापि क्षतिः । तदुक्तं
"अह जइ सुसावगो कोई ॥२॥ संथारगपवज्जं पडिवज्जइ तस्स जिणगिहाईसु ।
पव्वज्जाविहि सव्वो कायव्वो नेव उवट्ठावणा" ॥३॥ दन्तधावनपुरस्सरं देवार्चनं कर्तव्यमुपवासपौरुष्यादिप्रत्याख्यानिनस्तु दन्तधावनादिकं विनापि शुद्धिरेव तपसो महाफलत्वात् । “स्वगृहचैत्यढौकितचोक्षपूगीफलनैवेद्यादिविक्रियोत्थं पुष्पभोगादि स्वगृहचैत्ये न व्यापार्यम्, नापि चैत्ये स्वयमारोप्यम्, किन्तु सम्यक्स्वरूपमुक्त्वाऽर्चकादेः पार्वात् तद्योगाभावे सर्वेषां स्फुटं स्वरूपमुक्त्वा स्वयमारोपयेत्, अन्यथा मुधाजनप्रशंसादिदोषः" । "देवगृहागतं नैवेद्याक्षतादिस्ववस्तुवत् सम्यग् रक्षणीयं सम्यग्मूल्यादियुक्त्या च विक्रेयं न तु यथा तथा मोच्यम्, देवद्रव्यविशादिदोषापत्तेः" । "एवं देवद्रव्यवत् ज्ञानद्रव्यमपि श्रावकाणामकल्प्यम् । साधारणद्रव्यमपि सङ्घदत्तमेव व्यापारयितुं कल्प्यते नान्यथा, सङ्घनापि सप्तक्षेत्रीकार्ये एव व्यापार्यम्, न मार्गणादिभ्यो देयम्" । तथा ज्ञानसत्कं कद्गलादिकं
ratan-t.pm5 2nd proof