SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ साध्वाद्यर्पितं श्राद्धेन स्वकार्ये न व्यापार्यम्, स्वपुस्तिकायामपि न स्थाप्यम्, समधिकनिष्क्रय विना, साध्वादिसत्कमुखवस्त्रिकादेरपि व्यापारणं न युज्यते, गुरुद्रव्यत्वात्, गुरुसमपितस्थापनाचार्यजपमालादिग्रहणे तु व्यवहारो दृश्यते'" । "तथा देवज्ञानादेयं क्षणमपि न रक्षणीयम्, देवादिद्रव्योपभोगदोषप्रसङ्गात्, अर्पणाशक्तेन तु प्रथममेव पक्षमासादिरवधि: कार्या, अवधिमध्ये तूद्ग्राहणिकां विनापि शीघ्रं देयमन्यथा देवद्रव्योपभोगदोषप्रसक्तिः, तद्रव्यचिन्तकैरुद्ग्राहणिकापि शीघ्रमभग्नतया स्वद्रव्यवद्देवद्रव्येऽपि कार्या" । "तथान्त्यावस्थायां पित्रादीनां यन्मान्यते तत्सावधानत्वे गुरुश्राद्धादिबहुसमक्षमेव वाच्यम्-यन्भवन्निमित्तमियद्दिनमध्ये इयद् व्ययिष्यामि तदनुमोदना भवद्भिः कार्या, तदपि सद्यः सर्वज्ञातं व्ययितव्यम्, स्वनाम्ना व्यये तु स्तैन्यादिदोषः" । इत्यादयोऽनेके उपयोगिनो विषयाः प्रपञ्चिता इति ॥ स्तम्भननगरे आषाढ कृष्णद्वितीयायां वीर संवत् २४५३ पूज्यपाद-आचार्यदेवश्रीमद्विजयदानसूरीश्वरसाम्राज्यवर्तीअनयोगाचार्य-श्रीमत्प्रेमविजयगणिवरविनेयाणजम्बविजयः आभारदर्शनम् अयं ग्रन्थोऽतीवाशुद्ध आसीत्, तस्य शुद्ध्यर्थं प्रातःस्मरणीयमहामहोपाध्यायश्रीम्द्वीरविजयमां ज्ञानकोषात् हस्तलिखिते द्वे प्रती मिलीते । ययोरेका नूतना, द्वितीया जीर्णा, द्वेऽप्यतीवाशुद्धेस्तः । अयं ग्रन्थः प्रायेण सर्वत्राशुद्धिमान्नेव दृष्टः । तादृशस्यापि शोधनेऽखण्डप्रतापयुक्तशासननायकश्रीमद्विजकमलसूरीशमां सुविहितपट्टाकाशेऽज्ञानतमो ध्वंसक नभोमणिभिः श्रीमद्विजयदानसूरीश्वरैःयत्परिश्रमः संसेवितस्तेनैवास्यासीमोपकारकस्य ग्रन्थरत्नाकरस्य प्रकाशने समर्थीकृता वयं, ततस्तेषां नामसंकीर्तनेनैव वयमस्माकं रसनां पावनी कूर्मः । तेषां प्रभावाच्चास्य ग्रन्थस्याध्येतारः सकलरहस्यार्थसार्थसम्पादनसुखभाजना भवन्त्वित्यभिलषामो वयम् । दृष्टिदोषात् मुद्रकदोषाद्वा या अशुद्धयः संजाताः ताः धीमद्भिः कृपां कृत्वा संशोधनीयाः ।। साकरचन्द्रात्मजो जीवनचन्द्रः मोहमयीपत्तने आषाढ कृष्ण पञ्चम्यां वीर संवत् २४५३ ratan-t.pm5 2nd proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy