Book Title: Vastupal na Aprasiddha Shilalekho tatha Prashastilekho
Author(s): Punyavijay
Publisher: Z_Mahavir_Jain_Vidyalay_Suvarna_Mahotsav_Granth_Part_1_012002.pdf and Mahavir_Jain_Vidyalay_Suvarna_

View full book text
Previous | Next

Page 11
________________ પુણ્યશ્લોક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રશસ્તિલેખો : ૩૧૧ જેના ગુણોએ જેની કીર્તિને ત્રણ જગતમાં વ્યાપ્ત કરી છે તે આ તેજપાલના પુત્ર લૂણસિંહના ગુણોની સર્વ કોઈ પ્રશંસા કરે છે. (૬) ભગવાન શ્રીઆદિનાથ અને કપશ્ર્વિક્ષની કૃપાથી આ પ્રશસ્તિ વસ્તુપાલના વંશનું કલ્યાણ કરનારી थायो. (७) મહામાત્ય શ્રીવસ્તુપાલની આ પ્રશસ્તિ સ્તંભતીર્થ(ખંભાત)નિવાસી ધ્રુવ જગતસિંહે લખી અને સૂત્રધાર કુમારસિંહે કોતરી. કલ્યાણ હો ! * હવે મહામાત્ય શ્રીવસ્તુપાલ સંબંધિત અદ્યાવધિ અપ્રસિદ્ધ દશ પ્રશસ્તિલેખોનો અક્ષરશઃ પાઠે અને તે લેખોનો ટૂંક પરિચય આપવામાં આવે છે : प्रशस्तिलेखाङ्क -१ स्वस्ति श्रीवल्लिशालायां वस्तुपालाय मन्त्रिणे । यद्यशः शशिनः शत्रुदुष्कीर्त्या शर्वरीयितम् ॥ १॥ शौण्डीरोऽपि विवेकवानपि जगत्त्राताऽपि दाताऽपि वा, सर्वः कोऽपि पथीह मन्थरगतिः श्रीवस्तुपालश्रिते । स्वज्योतिर्दहनाहुतीकृततमस्तोमस्य तिग्मद्युतेः, कः शीतांशुपुरःसरोऽपि पदवीमन्वेतुमुत्कन्धरः १ ॥ २ ॥ श्रीवस्तुपालसचिवस्य यशःप्रकाशे, विश्वं तिरोदधति धूर्जटिहासभासि । मन्ये समीपगतमप्यविभाव्य हंसं देवः स पद्मवसतिश्चलितः समाधेः ॥ ३ ॥ वास्तवं वस्तुपालस्य वेत्ति कश्चरिताद्भुतम् ? । यस्य दानमविश्रान्तमर्थिष्वपि रिपुष्वपि ॥ ४ ॥ शून्येषु द्विषतां पुरेषु विपुलज्वालाकरालोदयाः, खेलन्ति स्म दवानलच्छलभृतो यस्य प्रतापाद्मयः । जृम्भन्ते स्म च पर्वगर्वित सितज्योतिः समुत्सेकित ज्योत्स्नाकन्दलकोमलाः शरवणव्याजेन यत्कीर्तयः ॥ ५ ॥ कुन्दं मन्दप्रतापं, गिरिशगिरिरपाहंकृतिः, सासु बिन्दुः पूर्णेन्दुः सिद्धसिन्धुर्विधृतविधुरिमा, पञ्चजन्यः समन्युः । शेषाहिर्निर्विशेषः, कुमुदमपमदं, कौमुदी निष्प्रसादा, क्षीरोदः सापनोदः, क्षतमहिम हिमं यस्य कीर्तेः पुरस्तात् ॥ ६ ॥ यस्योर्वीतिलकस्य किन्नर गणोद्गीतैर्यशोभिर्मुहुः स्मेर द्विस्मय लोलमौलिविगलच्चन्द्रामृतोज्जीविनाम् । पृष्टभवदीदृशी मम न मे नो मेऽप्यवाप्येति गां मुण्डखक्परिणद्धधातृशिरसां शम्भुः परं पिप्रिये ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28