Book Title: Vastupal na Aprasiddha Shilalekho tatha Prashastilekho
Author(s): Punyavijay
Publisher: Z_Mahavir_Jain_Vidyalay_Suvarna_Mahotsav_Granth_Part_1_012002.pdf and Mahavir_Jain_Vidyalay_Suvarna_

View full book text
Previous | Next

Page 13
________________ પુણ્યશ્લોક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રશસ્તિલેખો : ૩૧૩ त्यागो यद्वसुवारिवारितजगद्दारिद्रयदावानलश्वेतः कण्टककुट्टनैकर सिकं वर्णाश्रमेष्वन्वहम् । सङ्ग्रामश्च समग्रवैरिविपदाम द्वैत वैतण्डिक स्तन्मन्ये वसति त्रिधाऽपि सचिवोत्तंसेऽत्र वीरो रसः ॥ १७ ॥ आश्चर्यं वसुवृष्टिभिः कृतमनः कौतूहला कृष्टिभि र्यस्मिन् दानघनाघने तत इतो वर्षत्यपि प्रत्यहम् । दूरे दुर्दिनसंकथाsपि सुदिनं तत् किञ्चिदासीत् पुनयेनोर्वीवलयेऽत्र कोऽपि कमलोल्लासः परं निर्मितः ॥ १८ ॥ साक्षाद् ब्रह्मपरम्परां गतमिव श्रेयोविवर्तैः सतां तेजःपाल इति प्रतीतमहिमा तस्यानुजन्मा जयी । यो धत्ते न दशां कदापि कलितावद्यामविद्यामयीं यं चोपास्य परिस्पृशन्ति कृतिनः सद्यः परां निर्वृतिम् ॥ १९ ॥ सङग्रामः क्रतुभूमिरत्र सततोद्दीप्रः प्रतापानलः श्रूयन्ते स्म समन्ततः श्रुतिसुखोद्द्वारा द्विजानां गिरः । मन्त्रीशोऽयमशेषकर्म निपुणः कर्मोपदेष्टा द्विषो होतव्याः फलवांस्तु वीरधवलो यज्वा यशोराशिभिः ॥ २० ॥ श्लाघ्यो न वीरधवलः क्षितिपावतंसः कैर्नाम विक्रम- नयाविव मूर्त्तिमन्तौ । श्रीवस्तुपाल इति वीरलला मतेजः पालश्च बुद्धिनिलयः सचिवौ यदीयौ ॥ २१ ॥ Jain Education International अनन्तप्रागल्भ्यः स जयति बली वीरधवलः सशैलां साम्भोधिं भुवमनिशमुद्धर्तुमनसः । इमौ मन्त्रिष्ठौ कमठपति - कोलाचिपकलामदभ्रां बिभ्राणौ मुदमुदयिनीं यस्य तनुतः ॥ २२ ॥ युद्धं वारिधिरेष वीरधवलक्ष्मा शक्रदोर्विक्रमः पोतस्तत्र महान् यशः सितपटाटोपेन पीनद्युतिः । सोऽयं सारमरुद्भिरञ्चतु परं पारं कथं न क्षणाद् यत्राss श्रान्तमरित्रतां कलयतस्तावेव मन्त्री श्वरौ १ ॥ २३ ॥ रं भ्राम्यतु नाम वीरधवलक्षोणीन्दुकीर्त्तिर्दिवं पातालं च महीतलं च जलधेरन्तश्च नक्तन्दिवम् । धीसिद्धान निर्मलं विजयते श्रीवस्तुपालाख्यया तेजःपालसमाह्वया च तदिदं यस्या द्वयं नेत्रयोः ॥ २४ ॥ श्रीमन्त्री श्वरवस्तुपालयशसामुच्चावचैर्वी चिभिः सर्वस्मिन्नपि लम्भिते घवलतां कल्लोलिनीमण्डले । गङ्गैवेयमिति प्रतीतिविकलास्ताम्यन्ति कामं भुवि भ्राम्यन्तस्तनुसादमन्दितमुदो मन्दाकिनीधार्मिकाः ॥ २५ ॥ हो रोहण ! रोहति त्वयि मुहुः किं पीनतेयं ! शृणु भ्रातः ! सम्प्रति वस्तुपालसचिवत्यागैर्जगत् प्रीयते । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28