Book Title: Vastupal na Aprasiddha Shilalekho tatha Prashastilekho
Author(s): Punyavijay
Publisher: Z_Mahavir_Jain_Vidyalay_Suvarna_Mahotsav_Granth_Part_1_012002.pdf and Mahavir_Jain_Vidyalay_Suvarna_

View full book text
Previous | Next

Page 22
________________ ૩૨૨ : શ્રી મહાવીર જૈન વિદ્યાલય સુવર્ણ મહોત્સવ થW आजन्माऽपि शये कृताय सुकृतस्तोमाय यत्नान्मया यद्यासाद्यत कोऽपि दूषणकणः श्रीवस्तुपाल! त्वयि । यत्कल्पद्रुमपल्लवद्युतिमवष्टभ्यैव कल्पद्रुमं पाणिर्धिक् कुरुते तवैष मनुते कोऽमुं न दोषाश्रितम् ॥ १६ ॥ ॥ एते कविसार्वभौमश्रीहरिहरस्य ॥ छ । प्रशस्तिलेखाङ्क-५ मुखमुद्रया सहान्ये दधति करे सचिवमन्त्रिणो मुद्राम् । श्रीवस्तुपाल ! भवतो वदान्य ! तद् द्वितयमुन्मुद्रम् ॥ १॥ कीर्तिः कन्दलितेन्दुकान्तिविभवा, धत्ते प्रतापः पुनः प्रौढिं कामपि तिग्मरश्मिमहसां, बुद्धिर्बुधाराधनी । प्रत्युजीवयतीह दानमसमं कर्णादिभूमीभुजः, तत् किञ्चिन्न तवास्ति यन्न जगतः श्रीवस्तुपाल ! प्रियम् ॥ २॥ गीतं न स्वदते, धिनोति न विधुः, प्रीणाति वीणा न सा, काम्यः सोऽपि न कोकिलाकलवरः(१ रवः), श्रन्यो न हंसस्वनः । वाग्देवीपदपमनू पुर! यदि श्रीमलदेवानुज! श्रूयन्ते सचिवावतंस ! भवता संकीर्तिताः सूक्तयः ॥ ३ ॥ तिष्ठन्तोऽपि सुदूरतस्त्रिभुवनव्याप्तिप्रगल्भात्मना तेन त्वद्यशसा वयं सुमनसो निर्वासिताः समनः। तैरेतैरिह तद्विरोधिरभसाद बद्धा स्थितिस्ते हृदि क्षन्तव्यं कविबान्धवेन तदिदं श्रीवस्तुपाल! त्वया ॥४॥ ॥ एते महामात्यश्रीवस्तुपालपरममित्रमन्त्रिश्रीयशोवीरस्य ॥छ॥ प्रशस्तिलेखाङ्क-६ स्वस्ति श्रीवस्तुपालाय शालन्ते यस्य कीर्तयः । व्योम्नि यन्माति गौराङ्गीधम्मिल इव मल्लिकाः॥१॥ श्रीरामः सुकृतसुतो वसन्तपालः किं वाच्यः शुचिचरितानि यद्यशांसि । आधत्ते विसविशदोपवीततन्तुव्याजेनोरसि रसिकः स्वयं स्वयम्भूः ॥२॥ तत्तादृग्नवधर्मकर्मरचनासंवर्मितानां मुहु__ महात्म्यं किल वस्तुपालयशसां कः प्रस्तुतं न स्तुते । वन्द्योऽपि द्युसदा सदा कलयति श्वेतांशु-साधिपस्वःस्रोतांसि जटातटे यदुपमापूतानि भूताधिपः ॥ ३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28