Book Title: Vastupal na Aprasiddha Shilalekho tatha Prashastilekho
Author(s): Punyavijay
Publisher: Z_Mahavir_Jain_Vidyalay_Suvarna_Mahotsav_Granth_Part_1_012002.pdf and Mahavir_Jain_Vidyalay_Suvarna_

View full book text
Previous | Next

Page 14
________________ ૩૧૪ઃ શ્રી મહાવીર જૈન વિદ્યાલય સુવર્ણ મહોત્સવ ચર્થી तेनास्तैव ममार्थिकुट्टनकथाप्रीतिर्दरी किन्नरी- . गीतैस्तस्य यशोऽमृतैश्च तदियं मेदस्विता मेऽधिकम् ॥ २६ ॥ देव! स्वर्नाथ! कष्ट, ननु क इव भवान् ? नन्दनोद्यानपालः, खेदस्तत्कोऽद्य ? केनाप्यहह ! तव हृतः काननात् कल्पवृक्षः। हुँ मा वादीस्तदेतत् किमपि करुणया मानवानां मयैव प्रीत्यादिष्टोऽयमुास्तिलकयति तलं वस्तुपालच्छलेन ॥ २७ ॥ कर्णायास्तु नमो नमोऽस्तु बलये त्यागैकहेवाकिनी यौ द्वावप्युपमानसम्पदमियत्कालं गतौ त्यागिनाम् । भाग्याम्भोधिरतः परं पुनरयं श्री वस्तुपालश्चिरं मन्ये धास्यति दानकर्मणि परामौपम्यधौरेयताम् ॥ २८॥ ब्योमोत्सङ्गरुधः सुधाधवलिताः कक्षागवाक्षाङ्किताः स्तम्भश्रेणिविज़म्भमाणमणयो मुक्तावचूलोज्ज्वलाः । दिन्याः कल्पमृगीदृशश्च विदुषां यत्त्यागलीलायितं व्याकुर्वन्ति गृहाः स कस्य न मुदे श्रीवस्तुपालः कृती ? ॥२९॥ यद दुरीक्रियते स्म नीतिरतिना श्रीवस्तुपालेन तत काञ्चित् संवननौषधीमिव वशीकाराय तस्येक्षितुम् ।। कीर्तिः कौञ्जनिकुञ्जमञ्जनगिरिं प्राक्शैलमस्ताचलं विन्ध्योर्वीधर-शर्वपर्वत-महामेरूनपि भ्राम्यति ॥ ३०॥ देवः पङ्कजभूर्विभाव्य भुवनं श्रीवस्तुपालोद्भवैः शुभ्रांशुद्युतिभिर्यशोभिरभितोऽलक्ष्यैर्विलक्षीकृतम् । कल्पान्तोद्भुतदुग्धनीरधिपयःसन्तापशङ्काकुलः .. शङ्के वत्सर-मास-वासरगणं संख्याति सर्गस्थितेः ।। ३१॥ चित्रं चित्रं समुद्रात् किमपि निरगमद् वस्तुपालस्य पाणे यो दानाम्बुप्रवाहः स खलु समभवत् कीर्तिसिद्धस्रवन्ती। साऽपि स्वच्छन्दमारोहति गगनतलं खेलति क्ष्माधराणां शृङ्गोत्सङ्गेषु रङ्गत्यमरभुवि मुहुर्गाहते खेचरोर्वीम् ॥ ३२ ॥ पुण्यारामः सकलसुमनःसंस्तुतो वस्तुपाल स्तत्र स्मेरा गुणगणमयी केतकीगुल्मपतिः । तस्यामासीत् किमपि तदिदं सौरभं कीर्तिदम्भाद् येन प्रौढप्रसरसुहृदा वासिता दिग्विभागाः ॥ ३३ ॥ सेचं सेचं स खलु विपुलैर्वासनावारिपूरैः स्फीतां स्फाति वितरणतर्वस्तुपालेन नीतः। तच्छायायां भुवनमखिलं हन्त! विश्रान्तमेतद् दोलाकेलिं श्रयति परितः कीर्त्तिकन्या च तस्मिन् ॥ ३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28