Book Title: Vastupal Prashasti Sangraha Author(s): Chandanbalashreeji Publisher: Bhadrankar Prakashan View full book textPage 6
________________ वस्तुपालस्तुतिः श्रीवस्तुपाल ! कलिकालविलक्षणस्त्वं, संलक्ष्यसे जगति चित्रचरित्रपात्रम् । यद्दानसौरभवता भवता वितेने, नानेकपेन मदमेदुरिता सुखश्रीः ॥१॥ दृश्यः कस्यापि नायं प्रथयति न परप्रार्थनादैन्यमन्यस्तुच्छामिच्छां विधत्ते तनुहृदयतया कोऽपि निष्पुण्यपण्यः । इत्थं कल्पद्रुमेऽस्मिन् व्यसनपरवशं लोकमालोक्य सृष्टः, स्पष्टं श्रीवस्तुपालः कथमपि विधिना नूतनः कल्पवृक्षः ॥२॥ श्रीवस्तुपालसचिवस्य परे कवीन्द्राः, कामं यशांसि कवयन्तु वयं तु नैव । येनेन्द्रमण्डपकृतोऽस्य यशःप्रशस्तिरस्त्येव शक्रहदि शैलशिलाविशाले ॥३॥ __ [ उदयप्रभीयवस्तुपालस्तुतौ श्लोक-२२/२३/२४]Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 269