________________
वस्तुपालस्तुतिः
श्रीवस्तुपाल ! कलिकालविलक्षणस्त्वं, संलक्ष्यसे जगति चित्रचरित्रपात्रम् । यद्दानसौरभवता भवता वितेने, नानेकपेन मदमेदुरिता सुखश्रीः ॥१॥ दृश्यः कस्यापि नायं प्रथयति न परप्रार्थनादैन्यमन्यस्तुच्छामिच्छां विधत्ते तनुहृदयतया कोऽपि निष्पुण्यपण्यः । इत्थं कल्पद्रुमेऽस्मिन् व्यसनपरवशं लोकमालोक्य सृष्टः, स्पष्टं श्रीवस्तुपालः कथमपि विधिना नूतनः कल्पवृक्षः ॥२॥ श्रीवस्तुपालसचिवस्य परे कवीन्द्राः, कामं यशांसि कवयन्तु वयं तु नैव । येनेन्द्रमण्डपकृतोऽस्य यशःप्रशस्तिरस्त्येव शक्रहदि शैलशिलाविशाले ॥३॥
__ [ उदयप्रभीयवस्तुपालस्तुतौ श्लोक-२२/२३/२४]