Book Title: Vallabh Bharti Part 01
Author(s): Vinaysagar
Publisher: Khartargacchiya Shree Jinrangsuriji Upashray

View full book text
Previous | Next

Page 234
________________ १५. उदयसिंहसूरि-[सं० १२६५] सुविहितहितसूत्रधार जयति जिनवल्लभो गणिर्येन । येन पिण्डविशुद्धिप्रकरणमकारि चारित्रभवनम् ।। -पिण्डविशुद्धिदीपिका-मंगलाचरण प० २. १६. चित्रकूट वास्तव्य सा. सल्हाक लिखित प्रति (सं. १२६५) "चारित्रचूडामणिश्रीजिनवल्लभसूरि....। १७. पूर्णकलशगरिण-(सं.१३०७) तस्मिन् सोऽभयदेवसूरिरभवत् क्लृप्ताङ्गवृत्तिस्ततः, संविग्नो जिनवल्लभो युगवरो विद्यालिताराऽम्बरम् । -प्राकृतद्वयाश्रय-टीका प्रशस्ति प. २ १८. अभयतिलकोपाध्याय-(सं. १३१२) तच्छिष्यो जिनवल्लभो गुरुरभाच्चारित्रपावित्र्यतः, सारोद्धारसमुच्चयो नु निखिलश्रीतीर्थसार्थस्य यः । सिद्धाकर्षणमन्त्रकोन्वखिलसद्विद्याभिरालिङ्गनात्, कीर्त्या सर्वगया प्रसाधितनमोयानाग्रयविद्यो ध्र वम् । -संस्कृत-द्वयाश्रय टीका प्रशस्ति प. ४ जज्ञ तदीयपदवीनलिनीमरालः, स्वेभ्यश्चरित्ररमया जिनवल्लभाख्यः । -न्यायालंकार-टीका प्रशस्ति १९. चन्द्रतिलकोपाध्याय-(सं. १३१२) श्रीजिनवल्लभसूरिस्तत्पट्टऽभूद् विमुक्तबहुभूरिः । भव्यजनबोधकारी कल्मषहारी सदोद्यतविहारी ।। तर्क-ज्योतिरलङ्क तीनिजपरानेकागमांल्लक्षणं, यो वेत्ति स्म सुनिश्चितं सुविहितश्चारित्रिचूडामणिः ।। नानावाग्जडमुख्यकान् जनपदान् श्रीचित्रकूटस्थितां, चामुण्डामपि देवतां गुणनिधिर्यो बोधयामासि वा ।। -अभयकुमार-चरित्र-प्रशस्ति प. १०-११ २०. लक्ष्मीतिलकोपाध्याय-(सं. १३१७) विद्वत्ताऽतिशद्धि संयमरमात्रैमातुरः सर्वतो, वक्त्रो यस्य यश:कुमार उदितः श्रीतारकाधीश्वरम् । चित्रं न्यत्कृतवांस्त्रिलोकमपि च प्रासाधयल्लीलया, तीर्थ श्रीजिनवल्लभो गणपतिः शास्ति स्म सोऽयं ततः ।। -श्रावकधर्म-टीका प्रशस्ति प.४ वल्लभ-भारती ]

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244