Book Title: Vaidyasara
Author(s): Satyandhar Jain
Publisher: Jain Siddhant Bhavan

View full book text
Previous | Next

Page 97
________________ वैद्य-सार ११४-वाजीकरणादि प्रयोगे मदनकामरसः .. सूतं गंधकतालक मणिशिला ताप्यं तथा रौप्यक आरं वंगभुजंगहेमदरद शुल्वं च लौहत्रयम् बनवदुममौक्तिक मरकतं भस्म निरुत्थम् समम् सर्व भस्मकृतं पृथक्क्रममतं वृद्ध च तत्संमितम् ॥१॥ खल्वमध्ये विनिक्षिप्य चार्कक्षीरेण मर्दितः। कुमारीपत्ननिर्यासैः मर्दयेहिवसत्रयम् ॥२॥ वज्रमूषां द्वढा कृत्वा तस्यां कल्कं विनिक्षिपेत् । मृद्वग्निना पचेत् सम्यक् स्वांगशीतलमुद्धरेत् ॥३॥ मर्दयेत् मुसलीस्वरसैः छायायां च विशोषयेत् । दातव्यः कुक्कुटपुटे पंचविंशतिवारकम् ॥४॥ खल्वमध्ये विनिक्षिप्य शाल्मलिद्रावसंयुतः। शतावरीरसैश्चापि मुसलीचरसैस्तथा ॥५॥ कोकिलाक्षा मुद्रपर्णी गोतुरश्च पुनर्नवा।। प्रत्येकैषां रसेनैव मर्दयेत्तूर्यवासरं ॥६॥ निक्षिपेत् वज्रमूषायां पुटं मध्यन्तु दीयते। मर्दितस्य पुनवः पुटं सप्त यथाविधि ॥७॥ स्वांगश तलमुद्धृत्य चातसीपुष्पद्रावकैः। . कृष्णोन्मत्तरसेनैव विजयानागकेशरैः॥८॥ चातुर्जातस्य निर्यासैः प्रत्येकः मर्दितं तथा । शुष्कं कृत्वा समालोक्य पूरयेत् काचकूपिकाम् ॥६॥ यंत्रमध्ये विनिक्षिप्य चतुर्विशतियामकम् । धमेदग्निक्रमेणैव दीप्तमध्यसुवह्निना ॥१०॥ स्वांगशीतलमादाय चोद्धरेत् काचकूपिकाम्। स्थापयेच शिलाखल्वे भावनाकारयेबहु ॥११॥ इक्षुदाडिमखर्जूरमुसलीकनकगोक्षुराः । चातुर्जातं गवांक्षीरः शर्करा मधुजीरकाः ॥१२॥ नीलोत्पलं च वकुचीनालिकेरैश्च भावना । . अपामागश्च विजया गुडूची त्रिफला तथा ॥१३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132