Book Title: Uttaradhyayan Sutra Author(s): Bhavvijay Gani Publisher: Divya Darshan Trust View full book textPage 4
________________ ॥ अहम् ॥ ॥ सिदान्तमहोदध्याचार्यदेव श्रीविजयप्रेमसूरीश्वरगुरुभ्यो नमः॥ महोपाध्यायश्रीमद्भावविजयगणिविरचितविवृत्त्या सहितं उत्तराध्ययनसूत्रम् । - - - ॐ नमः सिद्धिसाम्राज्य-सौख्यसन्तानदायिने । त्रैलोक्यपूजिताय श्री-पार्श्वनाथाय तायिने ॥१॥ श्रीवर्द्धमानजिनराजमनन्तकीर्ति, वाग्वादिनी च सुधियां जननीं प्रणम्य ।। . श्रीउत्तराध्ययनसंज्ञकवाङ्मयस्य, व्याख्यां लिखामि सुगमा सकयां च काश्चित् ॥२॥ निर्युक्त्यर्थः पाठा-न्तराणि चार्थान्तराणि च प्रायः । श्रीशान्तिसूरिविरचित-वृत्तेर्जेयानि तत्त्वज्ञैः ॥ ३॥ पूर्वैर्विहिता यद्यपि, बह्वयः सन्त्यस्य वृत्तयो रुचिराः । पद्यनिबद्धकथार्थ, तदपि क्रियते प्रयत्नोऽयम् ॥४॥ इहोत्तराध्ययनानीति कः शब्दार्थः १ उच्यते, उत्तराणि श्रीदशवैकालिकनिष्पत्तेः प्राक् श्रीआचाराङ्गपठनोत्तरकालं पठ्यमानत्वेन दशवैकालिकनिष्पत्तेरनु च तत एवोर्द्धमधीयमानत्वेन, उत्तराणि वा प्रधानान्यध्ययनानि उत्तराध्ययनानि, तानि च षट्त्रिंशत्, तत्र श्रीजिनेन्द्रप्रणीतधर्मकल्पवृक्षस्य विनय एव मूलमित्यादी शासनाधिकारी श्रीसुधर्मखामी विनयाध्ययनमाह । तस्य चेदमादि सूत्रम्मूलम्-संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो। विणयं पाउकरिस्सामि,आणुपुर्वि सुणेह मे ॥१॥ व्याख्या- संयोगाद् द्रव्यतो मातापित्रादिसंबंधाद्भावतश्च कषायविषयादिक्लिष्टतरभावसंबंधात् 'विप्पमुक्कस्सत्ति' विविधैर्ज्ञानभावनादिभिः प्रकारैः प्रकर्षेण परीषहसहनादिरूपेण मुक्तो विप्रमुक्तस्तस्य, अयं भावः “अन्योऽन्यं भवचक्रे, याताः सर्वेऽप्यनन्तशो जीवाः॥ मात्रादिबन्धुभावं, शत्रदासीनभावं च॥१॥" ततः कोऽध निज तथा “कोहो अ माणो अ अणिग्गहीआ, माया य लोभो अपवड्डमाणा ॥ चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ॥१॥" ततो न देयः कोपादिविपक्षपक्षस्यावकाशः, इत्यादिभावनाभिः खजनादिगोचराभिधंगरहितस्य । तथा-'अणगारस्सत्ति' न विद्यते अगारं द्रव्यतो दृषदादिरचितं गृहं, भावतश्च अनंतानुबंध्यादिकृतं कषायमोहनीयं यस्यासौ अनगारस्तस्य भिक्षोः साधोः विनयं साधुजनासेवितं समाचार, अभ्युत्थानादिकमुपचारं वा प्रादुष्करिष्यामि प्रकटीकरिष्यामि कथयिष्यामीत्यर्थः। 'आणवित्ति' आनुपा परिपाच्या प्राकृतत्वात्ततीयार्थे द्वितीया । 'सुणेह मेत्ति' तं विनयं प्रादुष्करिष्यतः सतो मे मम सकाशात् शृणुत श्रवणं प्रति सावधानो भवत, अनेन वाक्येन धर्ममभिधातुकामेन धीधनेन पूर्व श्रोताऽभिमुखः कर्तव्य इति सूचितं, अन्यथा वक्तवाक्यस्य वैफल्यप्रसंगात्, उक्तं हि-"अप्रतिबद्धे श्रोतरि, वक्तुर्वाचः प्रयान्ति वैफल्यम् । नयनविहीने भर्चरि, लावण्यगुणस्तृणं स्त्रीणाम् ॥ १॥" किं चैवं श्रोतारमभिमुखीकृत्यापि धर्म वदतो वक्तुर्लाभ एव, यदुक्तं-"न भवति धर्मः श्रोतुः, सर्वस्सैकांततो हितश्रवणात् ॥ अवतोऽनुग्रहबया, वक्तस्त्वेकांततो भवति॥१॥" इति सूत्रार्थ गुणः, स च जीवादभिन्न इति विनीतगुणैरेव विनयखरूपमाहमूलम्-आणाणिदेसयरे, गुरूणमुववायकारए । इंगिआगारसंपन्ने, से विणीयत्ति वुच्चइ ॥२॥ __ व्याख्या-आज्ञा,-सौम्य ! इदं कुरु, इदं च माकार्षीरिति गुरुवचनं, तस्या निर्देश इदमित्थमेव करोमीति निश्चयाभिधानमाज्ञानिर्देशस्तं करोतीत्याज्ञानिर्देशकरः । तथा गुरूणां आचार्यादीनां उपपातः समीपदेशावस्थानं, तत्कारकस्तद्विधायी गुरुपार्थावस्थायी, न तु गुर्वादेशादिभीत्या दूरदेशस्थायीति भावः, इंगितं निपुणमतिज्ञेयं प्रवृत्तिनिवत्तिसूचकं ईषद्भूशिरःकंपाद्याकारः स्थूलधीसंवेद्यः प्रस्थानादिभावज्ञापको दिगवलोकनादिः, आह च-"अवलोअणं दिसाणं, विभणं साडयस्स संवरणं ॥ आसणसिढिलीकरणं, पढिअलिंगाई एआइं ॥१॥" अनयों द्वे इंगिताकारौ ताभ्यां गुरुगताभ्यां संपन्नो युक्तस्तद्वेदितया इंगिताकारसंपन्नः स इति पूर्वोक्तविशेषणयुक्तो विनेयो विनीतो विनयान्वित इत्युच्यते तीर्थकराद्यैरिति सूत्रार्थः॥२॥ अविनीतत्वत्यागेन हि विनीतो भवतीति अविनीतखरूपमाहमूलम-आणाणिदेसयरे, गुरूणमणुववायकारए । पडिणीए असंबुद्धे, अविणीएत्ति वुच्चई ॥ ३॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 424