Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमितौ पीठबन्धः
न दुर्जनवर्गस्य, सती युक्ताऽपकर्णना ॥ ५॥ ततोऽस्या लघुकर्माणः, क्षीरनीरघिसंनिभाः । गम्भीरहृदया भव्याः, सज्जनाः श्रवणोचिताः ॥६॥ तेषामपि न कर्तव्या, निन्दा नापि प्रशंसनम् । मौनमेव परं श्रेयः, तन्नेदं हन्त कारणम् ॥ ७ ॥ तन्निन्दाथा महापापमनन्तगु
शालिनाम् । स्तवोऽपि दुष्करस्तेषां, मादृशैर्जडबुद्धिभिः ॥ ८॥ किंच-अस्तुता अपि ते काव्ये, पश्यन्ति गुणमनसा । दोषामाच्छादयन्येव, प्रकृतिः सा महात्मनाम् ॥ ९ ॥ अतस्तेषां स्तवेनालं, केवलं ते महाधियः । अभ्यर्थनीयाः श्रवणे, तेनेदमभिधीयते ॥ १०॥
-भो भव्याः! सुमनीभूय, कर्ण दत्वा निबोधत । यूयं मदनुरोधेन, वक्ष्यमाणं मया क्षणम् ॥ ११ ॥ ___अनन्तजनसंपूर्णमस्ति लोके सनातनम् । अदृष्टमूलपर्यन्तं, नाम किञ्चिन्महापुरम् ॥ १२ ॥ तच्च कीदृशम्-अभ्रो
तुङ्गमनोहारिसोधपद्धतिसंकुलम् । अलब्धमूलपर्यन्तं, हट्टमार्गविराजितम् ॥ १३ ।। अपारैर्भूरिविस्तारै नापण्यैः प्रपूरितम् । |पण्यानां मूल्यभूत्ताभिराकीर्ण रनकोटिभिः ॥ १४ ॥ विचित्रचित्रविन्यासैदूंजते देवमन्दिरैः । आक्षिप्तबालहृदयैर्मिश्चलीकतलोचनैः ॥ १५ ॥ वाचालबालसंघातैलंसत्कलकलाकुलम् । अलक्ष्यतुङ्गप्राकारवलयेन विवेष्टितम् ॥ १६ ॥ अलब्धमध्यगम्भीरं, वेदिका-15 कथामुखं जलदुर्गमम् । विलसल्लोलकल्लोलैः, सरोभिः कृतविस्मयम् ॥ १७ ॥ घोरान्धकूपसंघातैः, शत्रूणां त्रासहेतुभिः । समन्तादुपगूढं च, प्राका- (११२-१५६ राभ्यर्णवर्तिभिः ॥ १८ ॥ भ्रमभ्रमरझङ्कारतारसंगीतसुन्दरैः । नानापुष्पफलाकीणीति चामरकाननैः ॥ १९ ॥ अनेकाश्चर्यभूयिष्ठं, तच्चमत्कारकारणम् । अदृष्टमूलपर्यन्तमीदृशं हि महापुरम् ॥ २०॥ अष्टभिः कुलकम् ॥ तत्र निष्पुण्यको नाम, कश्चिद्रको महोदरः। निर्नष्टबन्धुर्दुर्बुद्धिरर्थपौरुषवर्जितः ॥ २१ ॥ क्षुधाक्षामतनुर्भिक्षामादाय घटकर्परम् । पर्यटत्यनिशं दीनो, निन्द्यमानो गृहे गृहे ॥ २२ ॥ [अनाथो भूमिशयनघृष्टपार्वत्रिकः परम् । धूलीधूसरसर्वाङ्गन्धीरिकाजालमालितः॥ २३ ॥ दुर्दान्तडिम्भसंघातैस्ताड्यमानः क्षणे क्षणे ।
Kol॥on
Jain Educat
i onal
For Private & Personel Use Only
rajainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 474